SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥८०६॥ हे कामिन् ! त्वां धिगस्तु. तव जीवितव्यं धिगित्यर्थः, यस्त्वमसंयमजीवितव्यकारणाद्वांतं वदनान्निः सटार्क मृतमाहारं पुनरापातुं भोक्तुमिच्छसि, दीक्षां गृहीत्वा भोगांस्त्यक्त्वा पुनभोंगान् भोक्तुमिच्छसि. अतः कारणात्ते तवाऽस्मादसंयमजीवितव्यात् पंडितमरणेन मरणं श्रेयः कल्याणकारकं भवेत्, न पुनस्तव भोगाभिलाषः श्रेयस्कर इति भावः ॥ ४३ ॥ ॥ मूलम् ॥-अहं च भोगरायस्स । तं चासि अंधवण्हिणो॥मा कुले गंधणा होमो। संजमे निहुओ चर ॥ ४४ ॥ व्याख्या-राजीमती वदति, हे रथनेमे ! अहं भोगराजस्योग्रसेनभूपस्य पु| व्यस्मि, च पुनस्त्वमंधकवृष्णेः समुद्रविजयस्य पुत्रोऽसि, तस्मादावां गंधनौ गंधनकुलोत्पन्नौ सौ मा-18 ऽभूवमभवाव. यतो हि गंधनकुलोत्पन्नः सों वांतं विषं पश्चाद् गृह्णाति, तद्वदावाभ्यां वांता भोगाः पुनर्न वांछनीयाः, यतो हि सर्पा द्विविधाः, अगंधनकुलोद्भवा गंधनकुलोद्भवाश्च. यदा हि कस्यचित्पुरुषस्य सर्पो लगति, तदा मंत्रवादिनोऽग्निं ज्वालयित्वा मंत्रेण सर्पानाकर्षन्ति, तत्र च गंधनकुलो P॥८०६॥ द्भवाः स्वविषं पश्चाद गृह्णन्ति, अगंधनकुलोद्भवास्त्वग्नौ ज्वलंति, न पुनर्वांतं विषं पश्चाद् गृह्णति, त For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy