SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥७८९॥ - - विजयः? राजलक्षणसंयुक्तः. अत्र पुनः सौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थ. ॥ मूलम् ॥-तस्स भजा सिवानाम । तीय पुत्ते महायसे ॥ भयवं अरिट्टनेमित्ति । लोगनाहे दमीसरे ॥४॥ व्याख्या-तस्य समुद्रविजयस्य राज्ञः शिवानाम्नी भार्यासीत्. तस्याः शिवादेव्याः पको भगवानैश्वर्यधारी अरिष्टनेमिरासीत्. चतुर्दशस्वप्नदर्शनानंतरमेकमरिष्टरत्नमयं रथचक्रं सा ददर्श, तेनारिष्टनेमिरिति नाम प्रदत्तं. कथंभृतोऽरिष्टनेमिः ? महायशा महाकीर्तिः, पुनः कीदृशोऽरिष्टनेमिः? लोकनाथश्चतुर्दशरज्जुप्रमाणलोकप्रभुः पुनः कीदृशोऽरिष्टनेमिः ? दमीश्वरः, कुमारत्वेऽपि येन कंदपों जितः. तस्मादमिनां जितेंद्रियाणामीश्वरो दमीश्वरः ॥४॥ ॥ मूलम् ॥-सोरिट्टनेमिनामो उ । लक्खणस्सरसंजुओ ॥ अट्ठसहस्सलक्खणधरो। गोयमो कालगच्छवी ॥५॥व्याख्या-अथारिष्टनेमेवर्णनमाह-सोऽरिष्टनेमिनामा भगवानष्टसहस्रलक्षणधरो वर्तते, अष्टभिरधिकं सहस्रमष्टसहस्रं, लक्षणानामष्टसहस्रं लक्षणाष्टसहस्रं, तद्धरतीति लक्षणाटसहस्रधरः. अष्टसहस्रलक्षणानि धरतीति वाऽष्टसहस्रलक्षणधरः. पुनः कीदृशः? लक्षणवरसंयुतः, X ॥७८९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy