________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥६५५॥
मूषको व्रीहिमासाद्योत्तालमुख उच्चैर्मुखो नृत्यति.) अनेन शक्रेण प्राग्भवे शुद्धो धर्मः कृतः, तत ईदृशी ऋद्धिलब्धा, ततोऽहमपि तमेव धर्म करोमि, किं ममात्र विषादेन ? उक्तं च-समसंख्यावयवः सन् । पुरुषः पुरुषं किमन्यमभ्येति ॥ पुण्यैरधिकतरं चेन्ननु सोऽपि करोतु तान्येव ॥१॥ इ. त्यादिसंवेगभावनया प्रतिबुद्धः क्षयोपशमप्राप्तचारित्रमोहनीयो भगवंतंप्रत्येवं दशार्णभद्रोऽवादोत, भगवन् ! भवचारकादहं निर्विण्णोऽस्मि. ततश्चारित्रप्रदानेनानुग्रहं मम कुरु ? भगवता तदानीमेव मदहरणेन समं स दशार्णभद्रो दीक्षितः, शकेण तदा वंदितः, उक्तं च श्रमणमार्गग्रहणेन त्वयैव जितं, येनेशी ऋद्धिः सहसा परित्यक्ता. पूर्व त्वयाऽभिमानग्रस्तेन द्रव्यवंदनं कृतमिति त्वमेव धन्यो नाहमिति दशार्णभद्रमुनेः प्रशंसां कृत्वा शक्रः स्वस्थानं गतवानिति दशार्णभद्रदृष्टांतः. ११. ।
॥ मूलम् ॥ नमी नमेइ अप्पाणं । सकं सक्केण चोइओ ॥ चइऊण गेहं वैदेही । सामन्ने पज्जुवडिओ ॥ ४५ ॥ व्याख्या-पुनहें मुने! विदेहेषु देशेषुभवो वैदेही, विदेहदेशस्वामी नमिनामा नृपो गेहं गृहवासं त्यक्त्वा श्रामण्यं साधुधर्म पर्युपस्थितः, चारित्रयोग्यानुष्ठानं प्रत्युद्यतोऽभूदित्यर्थः.
६५५॥
For Private And Personal Use Only