________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥६५॥
वंदितः पूर्व. ततो द्वितीयदिवसे कृतप्रभातकृत्यः स्नातविलिप्तालंकृतदेहः स्फाररूपयौवनलावण्यनेपथ्ययुक्तः सर्वांगोपांगालंकृत्या चतुरंगिण्या सेनया सहितो बहुभिमंत्रिसामंतैः श्रष्टिसार्थवाहैश्च परिवृतः, भंभादिवादित्रश्रेणिबधिरितदिगंतरालो गंधर्वैर्गीयमानगुणो नृत्यंतीभिर्विलासिनीभिः पोषितनेत्ररसो गजेंद्रारूढो दशार्णभद्रभूपतिर्भगवतो वंदनार्थमायातः. विशुद्धभावेन भगवान् वंदितः. राजा मदहरश्च हर्ष प्राप्तो. अत्रांतरे शक्रेण चिंतितं मरकृतया महाविभूत्याऽसौ दशार्णभद्रः प्रतिबोधं यास्यतोति. शक ईदृशीं विभूतिं विकुर्वितवान्. तथाहि-ऐरावणहस्तिनोऽष्टौ दंता विकुर्विताः, दंते दे
तेऽष्टाष्टपुष्करिण्यो विकुर्विताः, पुष्करिण्यां पुष्करिण्यामष्टावष्टौ पद्मानि, पने पद्मेऽष्टाष्ट पत्राणि, पत्रे है। पत्रे द्वात्रिंशद्बद्धनाट्यानि. अनया विभूत्या ऐरावणारूढेन शक्रेण प्रदक्षिणीकृत्य भगवान् वंदितः.
तं तादृशं दृष्ट्वा दशार्णभद्रेण चिंतितमहो खल्लु तुच्छोऽहं, यस्तुच्छया विभूत्या गवं कृतवान्, यत उ. |क्तं-अदिट्ठभद्दा थोवेणवि । हुंति उत्तणाणीया ॥ णच्चइ उत्तालमुहो हु । मृसगो वीहिमासज्ज ॥१॥ (अस्या व्याख्या-अदृष्टभद्रा नीचाः स्तोकेनाप्युत्ताना भवंति मायंतीत्यर्थः. हु इति वितकें
Hormix
६५४॥
For Private And Personal Use Only