________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
| सटीक
000000000000000000000
गवाक्षस्थेनारहन्नकेन तादृशावस्था माता दृष्टा, संजातात्यंतसंवेगः स गवाक्षादुत्तीर्य पादयोः पतित्वा मातरमेवाह हे मातः! सोऽहमरहन्नकः, इति तद्वचःश्रवणात्स्वस्थचित्ता माता तमेवमाह वत्स! भव्यकुलजातस्य तव केयमवस्था? स प्राह मातश्चारित्रं पालयितुमहं न शक्नोमि, सा प्राह तीनशनं कुरु? मातृवचसा स तप्तशिलायां सुप्त्वा पादपोपगमनं चकार. सम्यगुष्णपरीषहं विसह्य समाधिभाग्देवत्वं प्राप्तवान्. एवमन्यैरपि साधुभिरुष्णपरीषहः सोढव्यः. ॥ ४ ॥ ततो ग्रीष्मकालादनंतरं वर्षाकालः समागच्छति, वर्षाकाले देशमशकादय उत्पद्यते तैश्च पीडितेन सता तत्परीषहः सोढव्यः.॥८॥९॥
॥ मूलम् ॥- पुट्ठो य दंसमसएहिं । समरेव महागुणी ॥ नागो संगामसीसे वा।सूरो अभिहणे परं ॥ १०॥ न संतसे न वारिज्जा । मणंपि न पओसए ॥ उवेहतहणे पाणे । भुंजते मंससोणियं ॥ ११ ॥ व्याख्या-महामुनिर्महातपस्वी दंशमशकैजंतुभिः स्पृष्टो भक्षितः सन्न संत्रसेत, त्रासं न प्राप्नुयात्, पुनस्तान् दंशादीन् न निवारयेत्. तेषां वारणे ह्याहारांतरायः स्यात, मनोऽपि न प्रदूषयेत, मनोऽपि कलुषं न कुर्यात्, निवारणं तु दूरे एव व्यक्तं, तेषु मनस्यपि क्रोधं न कुर्यात,
00000000000000000000
For Private And Personal Use Only