SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक 00000000 उत्तरा- तत्र साधुरातापनां कुर्वस्तप्तभूमेः शिलातो लोहकारशालासमीपत्वाद्वा परिदाघेन बहिःप्रस्वेदमलाभ्यां वहिना वा, अंतश्च तृष्णारूपेण तर्जितोऽतिपीडितः, पुनरप्युक्तमर्थमेव दृढयति-मेधावी साधुरुष्णा॥५०॥ भितप्तः स्नानं नैव प्रार्थयेत् नाभिलेखेत्, पुनर्गात्रं शरीरं नो परिसिंचेत्, नच प्रस्वेदादिसद्भावे आत्मानं खदेहं वीजयेत् ; वीजनेन शरीरस्य न वा न प्रक्षेपं कुर्यादित्यर्थः. अत्रारहन्नककथा यथा तगरानगर्यामहन्मित्राचार्यपावे दत्तनामा वणिग्भद्राभार्यारहन्नकपुत्रेण समं प्रवजितः, पित्रा 1 सर्ववैयावृत्त्यकरणेनेतस्ततः परिभ्रम्य भव्यभिक्षाभोजनसंपादनेन स बालोऽत्यंतं सुखी कृतः, उपविष्ट एव भुंक्ते, कदापि भिक्षायै न भ्रमति, तद्भिक्षार्थ खभिक्षार्थं च पितुरेव भ्रमणात्. अन्यदा पितरि मृते साधुभिः प्रेरितः स बालो ग्रीष्मे मासे भिक्षार्थं गतः, तापाभिभूतःप्रोत्तुंगगृहच्छायायामुपविशति, पुनस्तत उत्तिष्टति, शनैः शनैर्याति. एवं कुर्वतमतिसुकुमारं तमरहन्नककुमारं रूपेण कंदर्पावतारं दृष्ट्वा काचित्प्रोषितवणिग्भार्याकार्य गृहे स्थापितवती, तया सह स विषयासक्तोऽभूत्. अथ तन्माता साध्वी पुत्रमोहेन ग्रथिलीभूयारे अरहन्नक! अरे अरहन्नक! इति निर्घोषयंती चतुष्पथादिषु भ्रमति. एकदा tattamtra 100000000 ॥५०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy