________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा-
सटीक
रात्रिग्रहण भयोत्पादनार्थं. स्त्रीलिंगशब्दस्य अमोघा इत्यस्योपमार्थ ज्ञेयं. ॥ २३ ॥
॥ मूलम् ॥-जा जा वच्चइ रयणी । न सा पडिनियत्तई ॥ अहम्मं कुणमाणस्स । अफला जंति राईओ॥ २४ ॥ व्याख्या-हे तात! या या रजन्यस्तत्संबंधा दिवसाश्च व्युत्क्रामंति ब्रजंति, तास्ता रजन्यो न प्रतिनिवर्तते, पुनर्व्याघुट्य नायांति. अधर्म कुर्वतः पुरुषस्य रात्रयो दिवसाश्चाफला निरर्थका यांति, तस्माद्धर्माचरणेन सफला विधेया इत्यर्थः. ॥ २३ ॥ तदेव पुनरप्याहतुः
॥ मूलम् ॥-जा जा वच्चइ रयणी । न सा पडिनियत्तई ॥ धम्मं तु कुणमाणस्स । सहला जंति राईओ॥ २४ ॥ व्याख्या-पूर्वार्धस्यार्थस्तथैव, हे तात! धर्मं कुर्वाणस्य पुरुषस्य रात्रयो दिवसाश्च सफला यांति, धर्माचरणंविना निःफला इत्यर्थः. प्राकृतत्वाद्वचनस्य व्यत्ययः, नृजन्मनः फलं धर्माचरणं, धर्माचरणं हि व्रतंविना न स्यात्, अतश्चावां व्रतं गृहीष्यावः. नृजन्मनि रात्रिदिवसान् सफलान् करिष्याव इति भावः ॥ २४ ॥ तद्वचनाल्लब्धबोधो भृगुपुरोहितः पुत्रौप्रत्याह
॥ मूलम् ॥-एगओ संवसित्ताणं । दुहओ समत्तसंजुया॥ पच्छा जाया गमिस्सामो। भिक्ख
CONSCIO-COMINA
॥५०२॥
For Private And Personal Use Only