SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक i k ॥४७२॥ ॥ मूलम् ॥-बालाभिरामेसु दुहावहेसु । न तं सुहं कामगुणेसु रायं ॥ विरत्तकामाण तवोधणाणं । जं भिक्खुणं सीलगुणे रयाणं ॥ १७ ॥ व्याख्या-हे राजन् ! विरक्तकामानां विरक्ता कामेभ्य | इति विरक्तकामास्तेषां निर्विषयिणां भिक्षूणां साधूनां यत्सुखं वर्तते, तत्सुखं कामगुणेषु शब्दादिषु इंद्रियसुखेषु कामिनां पुरुषाणां नास्ति. कीदृशेषु कामगुणेषु ? बालाभिरामेषु बालानां निर्विवेकाणामभिरामा बालाभिरामास्तेषु, मूर्खा हि विषयेषु रज्यंते. पुनः कीदृशेषु कामगुणेषु? दुःखावहेषु दुःखदायकेषु. कीदृशानां भिक्षुणां? तपोधनानां, तप एव धनं येषां ते तपोधनास्तेषां. पुनः कीदृशानां ? शीलगुणे रतानां, शीलस्य गुणा गुणकारिणो नवविधगुप्तयस्तेषु रता आसक्तास्तेषां. ॥ १७ ॥ ॥मूलम् ॥ नरिंद जाइं अहमा नराणां । सोवागजाई दुहओ गयाणं ॥ जहिं वयं सवजण| स्स वेसा । वसीय सोवागनिवेसणेसु ॥ १८ ॥ व्याख्या-हे नरेंद्र! नराणां मनुष्याणां मध्ये अधमा | निंद्या जातिः श्वपाकस्य चांडालस्य जातिवर्तते, सा जातियोरपि आवयोर्गता प्राप्ता, णं इति वा| क्यालंकारे, यस्यां जातौआवां सर्वजनस्य द्वेष्यौ अभूव. श्वपाकनिवेशनेषु चांडालगृहेषु वसीय आ -54-to- b ॥४७२॥ % For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy