________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sri Kalassagersai Gyanmandie
उत्तरा
सटीक
॥२४६॥
3000000000000000000004
न कुर्यात्, किं कृत्वा? पूर्वसंयोगं 'विजहत्तु' विहाय, कथंभृतो भिक्षुः? स्नेहकरैः, सस्नेहाः स्नेहं कुर्वतीति स्नेहकरास्तैः पुत्रकलत्रादिभिरस्नेहो वीतरागः, अथवा स्नेहकरेष्वस्नेहः, सप्तमीस्थाने तृतीया, पुनः सभिक्षुर्दोषप्रदोषैः प्रमुच्यते, दोषाश्च प्रदोषाश्च दोषप्रदोषास्तैदोषप्रदोषैः प्रमुक्तो भवति, प्रकर्षेण रहितो भवति, दोषैर्मनस्तापादिभिः, प्रदोषैः प्रकृष्टदो पैः, परभवे नरकदुःखै रहितो भवति. २
॥ मूलम् ॥–तो नाणदंसणसमग्गो। हियनिस्सेसाय सबजीवाणं ॥ तेसिं विमोक्खणहाए । भासई मुनिवरो विगयमोहो ॥३॥ व्याख्या-ततोऽनंतरं मुनिवरः कपिलः केवली सर्वजीवानां हितनिःश्रेयसाय भाषते, हितं पथ्यसदृशं, यन्नितरामतिशयेन श्रेयः कल्याणं हितनिःश्रेयसस्तस्मै हितनिःश्रेयसोय, किमर्थं भाषते? तेषां चौराणां विमोक्षणार्थ, स्वयं तु कपिलो विमुक्त एवास्ति. अथ च तेषां चौराणां मोक्षणार्थमाहेत्यर्थः. कथंभूतो मुनिवरः? विगतमोहो मोहरहितः, पुनः कीदृशो मुनिवरः? ज्ञानदर्शनसमग्रो ज्ञानदर्शनाभ्यां पूर्णः. ॥ ३ ॥ किं भाषत इत्याह
॥ मूलम् ॥--सवं गंथं कलहं च। विप्पजहे तहाविहं भिक्खू ॥ सवेसु कामजाएसु । पासमा
000000000000000000
॥२४६॥
For Private And Personal Use Only