________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०४
नारायणविरचितदीपिकासमेता
[५ खण्डः ]
दिषु ताम्यामाऽऽद्यन्तमादित आरम्यान्तं यावत् । राज्याभिषेकसंभारादारम्य शीताहरणान्तम् । भक्तेनेत्यनेन रामपरत्वाद्धनुमतोऽपि रामभक्तं प्रति पूज्यतोक्ता । तन्मन्त्रो यथा" नमो भगवत आञ्जनेयाय महाबलाय स्वाहा " । अयं मन्त्रः प्रधानमङ्गं चाष्टादशाक्षरो भूतादिनाशनो मन्त्रराजः । ईश्वरानुष्टुब्हनूमन्त ऋष्याद्याः । हं बीजं स्वाहा शक्तिः । हनुमत्प्रीत्यर्थे जपे विनियोगः । नमो भगवत आञ्जनेयायाङ्गुष्ठाभ्यां नमः । रुद्रमूर्तये तर्जनीभ्यां नमः । वायुपुत्राय मध्यमाभ्यां नमः । अग्नेर्भगायानामिकाभ्यां नमः । रामहिताय कनिष्ठिकाभ्यां नमः । ब्रह्मास्त्रनिवारणाय करतलकरपृष्ठाभ्यां नमः । एभि रेव षडङ्गम् ।
ततो ध्यानम् - " स्फटिकाभं स्वर्णकान्ति द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्भोजं मुहुर्मुहुः ॥
अयुतं तु पुरश्चर्या रामस्याग्रे शिवस्य च ।
पूजां तु वैष्णवे पीठे शैवे वा विदधीत वै ॥ आवृतीभिर्विना नित्यं नक्ताशी विजितेन्द्रियः" इति || ३ || ४ || ५ || स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः । विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ ६ ॥
ततो रामेण सुग्रीवस्य राज्ये प्रतिज्ञाते सति स तु रामे शङ्कितो वालिवधे रामस्य सामर्थ्यमस्ति न वेति संदिग्धः सन्प्रत्ययार्थं स्वविश्वासार्थम् । तत्प्रत्ययार्थमितिपाठे तस्मि नामे पौरुषस्य विश्वासार्थम् । दुन्दुभेर्देत्यस्य वालिहतस्य विग्रहमस्थिपुत्रं रामाय दर्शयामास । अयं दैत्यो वालिना हत इति ततो यो राम्रो दुन्दुभेर्दष्टा स तं दुन्दुभिमचिक्षिपत् । अनतिप्रयत्नेनैव क्षिप्तवान् । अथवा यस्तु मातरिश्वनीतिनिघण्टोर्यो मातरिश्वेव वायुरिव शीघ्रकारी रामस्तं विग्रहमचिक्षिपत् ॥ ६ ॥
सप्त तालान्विभिद्याऽऽशु मोदते राघवस्तदा ॥ ७ ॥ तेन हृष्टः कपीन्द्रोऽसौ सरामस्तस्य पत्तनम् ॥ जगामागर्जदनुजो वालिनो वेगतो गृहात् ॥ ८ ॥ वाली तदा निर्जगाम तं वालिनमथाऽऽहवे || निहत्य राघवो राज्ये सुग्रीवं स्थापयेत्ततः ॥ ९ ॥ (४१) इति श्रीरामपूर्वतापनीयोपनिषदि पञ्चमः खण्डः ॥ ५ ॥
For Private And Personal
"
ततो बढनिश्चये सत्यपि धानुष्कतासंदेहनिरासार्थं सप्ततालानेकेन बाणेनाऽऽशु शीघ्रं विभिद्य निर्भिद्य मोदते रघोरपत्यं तदा शीघ्रकारी रामः । सन्मित्रलाभः स्वपौरुषसाफल्यं च मोदे हेतु: । वर्तमानकालनिर्देशस्तु कल्पे कल्प एवं भवतीतिद्योतनार्थः । तेन रामपौरुषनिश्वयेन सुग्रीवो हृष्टः सन्सरामो रामसहित