SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ ३ खण्ड: ] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीरामपूर्वतापनीयोपनिषत् । रामश्च भद्रचन्द्रान्तो ज्ञेयो नतियुतो द्विधा । तारादिसहितः सोऽपि मन्त्रस्त्वष्टाक्षरः स्मृतः ॥ ताराद्याद्यन्तगः सोऽपि नवार्णः स्यादनेकधा । तारं रामश्चतुर्थ्यन्तः क्रोधास्त्रं वह्नितल्पगः ॥ अष्टार्णोऽयं परो मन्त्र ऋष्यादि स्यात्पडर्णवत् । जानकीवल्लभं डेन्तं वह्नेर्जाया हुमादिकाः ॥ दशाक्षरोऽयं मन्त्रः स्याद्वसिष्ठः स्यादृषिः स्वराट् । छन्दस्तु देवता रामः शीतापाणिपरिग्रही । २ आयो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ शिरोललाट भ्रूमध्यतालुकण्ठेषु हृद्यपि । नाम्यन्धुजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ अयोध्यानगरे रत्नचित्र सौवर्णमण्डपे । मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ सिंहासनसमारूढं पुष्पकोपरिराघवम् । रक्षोभिर्हरिभिर्दिव्यवरयानगतैः शुभैः ॥ संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् । शीतालक्षितवामाङ्कं लक्ष्मणेनोपशोभितम् ॥ श्यामं प्रसन्नवदनं सर्वाभरर्णैभूषितम् । ध्यायन्नेव जपेन्मन्त्रं वर्णलक्षं विचक्षणः ॥ दशांशं जहयाद्वैल्यैः फलैर्मधुरसंयुतैः । रामं डेन्तं धनुष्पाणये ते स्याद्वह्निसुन्दरी ॥ दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट्स्मृतम् । छन्दस्तु देवता प्रोक्ता रामो राक्षसमर्दनः || आयो बीजं द्विठः शक्तिस्तेनैवाङ्गानि पूर्ववत् । वर्णन्यासं तथा ध्यानं पौरश्चरणिकं विधिम् ॥ दशाक्षरोक्तवत्कुर्याच्चापबाणधरं स्मरेत् । ॐ हृद्भगवते रामचन्द्रभद्रौ च यूतौ ॥ अकर्णो द्विविधोपास्य ऋषिध्यानादि पूर्ववत् । श्रीपूर्व जयमध्यस्थं तद्विधा रामनाम च ॥ For Private And Personal ४९७ १ घ. मः सीता । २ घ. द्विढः । ३ घ म् । सीता । ४ घ 'णशोभित' । ५ घ. का द्विविधाथास्य । ६३
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy