SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [३ खण्डः ] नारायणविरचितदीपिकासमेता- षडङ्गं पूर्ववद्यद्वा पञ्चाणैर्मनुनाऽस्त्रकम् । मध्येवनं कल्पतरोर्मूले पुष्पलतासने ॥ लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् । अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ जटाभारलसच्छीर्ष श्यामं मुनिगणावृतम् ।। लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि । दशास्यमथनं प्राग्वत्ससुग्रीवविभीषणम् ॥ विजयार्थे विशेषेण वर्णलक्षं जपेन्मनुम् । खकामशक्तिवाग्लक्ष्मीताराद्यः पञ्चवर्णकः ॥ षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः । पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वतः ॥ लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा । श्रीमायामन्मथैकैकबीजाद्यन्तगतो मनुः ॥ चतुर्वर्णः स एव स्यात्षवर्णो वाञ्छितप्रदः । स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् । ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिरेव च ॥ अगस्त्यः श्रीशिवः प्रोक्ता मुनयोऽत्र क्रमादिमे । छन्दो गायत्रसंज्ञं च रामभद्रोऽस्य देवता ॥ अथवा कामबीजादेविश्वामित्रो मुनिर्मनोः । छन्दो दैव्यादिगायत्री रामभद्रोऽस्य देवता ॥ बीजशक्ती यथापूर्व षड्वर्णान्विन्यसेत्ततः । ब्रह्मरन्ध्रे ध्रुवोर्मध्ये हृन्नाभ्यन्धुषु पादयोः ।। बीजैः षड्दीर्घयुक्तैर्वा मन्त्राणैर्वा षडङ्गकम् । ध्यायेत्कल्पतरोर्मूले सुवर्णमयमण्डपे । पुष्पकाख्यविमानान्तः सिंहासनपरिच्छदे । पद्मे वसुदले देवमिन्द्रनीलमणिप्रभम् ।। वीरासनसमारूढं व्याख्यामुद्रोपशोभितम् । वामोरुन्यस्तहस्तं तं शीतालक्ष्मणसेवितम् ॥ सर्वाभरणसंपन्नमृतुलक्षं जपेन्मनुम् । यद्वा स्मरादिमन्त्राणां जपालं वा हरिं स्मरेत् ।। १५. तं सीता। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy