SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ६ षष्ठः प्रपाठकः ] मैञ्युपनिषत् । ४३९ निवनात्यात्मनाऽऽत्मानं जालेनेव खचरोऽतः पुरुषोऽध्य वसायसंकल्पाभिमानलिङ्गो बद्धोऽतस्तद्विपरीतो मुक्तः । .. गुणौघैरुह्यमान इति । गुणानां सत्त्वादीनां मायागुणानामोघाः प्रवाहा देहद्वयतद्धमरूपास्तैरुह्यमानः परवशीक्रियमाणोऽभिमानित्वं प्रयात इत्यन्वयः । जालेनेव खचर इत्यन्तं तृतीयप्रपाठके द्वितीयानुवाके व्याख्यातम् । यस्मादेवमचेतनस्य बुद्धितत्त्वस्य खसत्तास्फूोरस्वतन्त्रस्य कर्तृत्वबन्धमोक्षभाक्त्वमनुपपन्नं कूटस्थस्यापि चिदात्मनः परोपाधिवशात्प्रातिभासिकं तत्सर्वमुपपन्नमतोऽस्माद्धेतोः पुरुषोऽध्यवसायेत्यादिप्रासङ्गिकायोपसंहारः स्पष्टार्थः । प्रकृतमुपसंहरतिसस्मानिरध्यवसायो निःसंकल्पो निरभिमानस्तिष्ठेदेतन्मोक्षलक्षणमे. पाऽत्र ब्रह्मपदव्येषोऽत्र द्वारविवरोऽनेनास्य तमसः पारं गमिष्यति । तस्मानिरध्यवसाय इति । मुमुक्षुश्चेदकामः सन्विषयाध्यवसायादिरहितः स्यादित्यर्थः । एतद्यदकामादिलक्षणमवस्थानमेतन्मोक्षलक्षणं मोक्षसाधनं यत एषाऽत्र श्रेयोमार्गेषु मध्ये ब्रह्मपदवी साक्षाद्ब्रह्मप्राप्तिमार्गः । एषोऽत्र द्वारविवरो मोक्षद्वारस्योद्धाटनमित्यर्थः । विधेयाविष्टलिङ्गभेदैनिरध्यवसायाद्यात्मनाऽकामात्मत्वावस्थानं निर्दिश्यते । किं बहुनाऽनेनाकामात्मत्वावस्थानेनास्य संसाररूपस्य तमसः पारं परतीरं विष्णोः परमं पदं गमिष्यति । अचिरेणैवाऽऽत्मतत्त्वज्ञानेनोपैष्यतीत्यर्थः । एतां पदवीमधिगतस्य न पुनः प्राप्तव्यमवशिष्यत इत्याह __ अत्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति । अत्र हीति । तथा च श्रुतिस्मृती-'यो वेद निहितं गुहायां परमे व्योमन्सोऽश्नुते सर्वान्कामान्सह' ( तैत्तिरीयो० ) इति, 'यावानर्थ उदपाने सर्वतःसंप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः' (गी० ) इति । अत्रोक्तेऽर्थे निरभिमानस्य ब्रह्मपदप्राप्तिरित्यत्रोदाहरन्ति कठाः ( कठोप० ६) इति शेषः ॥ यदा पश्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ यदा यस्मिन्काले पञ्च ज्ञानानि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह मनःसहितानि सर्वेन्द्रियाणीति यावत् । अवतिष्ठन्ते निश्चलानि भवन्ति बुद्धिश्चाध्यवासायलक्षणा १ क. यध्याऽऽत्म' । २ क. कामत्वा । ३ क. कामत्वा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy