________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३८
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] स हीत्यादिना । हि यस्मात्स पुरुषः स्वभावतः सर्वकाममयः सर्वविषयकामाकुलो यतोऽध्यवसायसंकल्पादिलिङ्गस्तद्वत्तया काममयत्वमवगम्यत इत्यर्थः। अत एवायं बद्धो यतः काममयो बद्धोऽतस्तद्विपरीतोऽकाममयो मुक्त एवेत्यकामात्मता संपाद्या मुमुक्षुणेति भावः । इदानीमत्र मतान्तरं सांख्यदृष्टिविषयमुत्थापयति स्पमतपरिशुद्धये
अत्रैक आहुर्गुणः प्रकृतिभेदवशादध्यवसायात्म
बन्धमुपागतोऽध्यवसायस्य दोपक्षयाँद्विमोक्षः । अत्रैक आहुरिति । गुणो गुणकार्यं महदाख्यं बुद्धितत्त्वं प्रकृतिभेदवशात्पूर्ववासनात्मकस्वभावविशेषवशादध्यवसायात्मबन्धं विषयाध्यवसायादिरूपं बन्धनमुपागतो न चिदात्मेत्यर्थः । अध्यवसायस्य यो दोषो बहिर्विषयप्रवणता तस्य क्षयान्नाशाद्विषयवासनाविच्छेदाद्विमोक्षः पूर्वोक्तस्य गुणस्यैवेत्यर्थः । अत्रेतिशब्दोऽध्याहार्यो मोक्ष इत्येक आहुरिति संबन्धः । उत्थापितं मतं व्युत्थापयति
मनसा ह्येव पश्यति मनसा शृणोति कामः संकल्पो विचि. कित्सा श्रद्धोऽश्रद्धा धृतिरधृतिहर्षी रित्येतत्सर्वं मन एव । मनसा हीति । अन्तःकरणाभिमतस्य बुद्धितत्त्वस्य करणविभक्त्या परामर्शात्सर्वश्रुतिषु न तस्य कर्तृत्वमवगन्तुं शक्यं यतो मनसैव हि पश्यति लोकश्चक्षुषा यद्रूपं पश्यति तन्मनसैव पश्यति मनोव्यासङ्गे सति चक्षुःसंबद्धस्याप्यप्रतिभासात् “अन्यत्र मना अभवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति' (बृहदा० ) इत्यन्वयव्यतिरेकाभ्यां श्रुत्यन्तरे मनोबुद्ध्यहंकारशब्दवाच्यस्यान्तरात्मनः करणत्वावधारणान्न तस्य कर्तृत्वमिति तात्पर्यार्थः । विचिकित्सा संशयः । प्रसिद्धार्थमन्यत् । एतत्सर्वं मन एव मनोविकारत्वात् । सुवर्णं कुण्डलमितिवन्मनोभेदेन तद्धर्मत्वं कामादीनामवधार्यते कर्तृधर्मत्वभ्रान्तिव्यावृत्तय इत्यर्थः ।
ननु यद्येते कामादयो न कर्तृधर्माः कथं तर्हि कश्रियतयाऽहं कामीत्यादिरूपेण प्रतिभास इति चेन्नायं दोषोऽन्तःकरणोपाधिनिबन्धनत्वात्कर्तृत्वस्य चाऽऽत्मना तादात्म्याध्यासाधीनत्वादेव प्रतिभासोपपत्तिः स्फटिकमणेरिवौपाधिको लौहित्यप्रतिभास इत्यभिप्रेत्याऽऽह
गुणौघैरुह्यमानः कलुषीकृतश्चास्थिरश्चञ्चलो लुप्यमानः सस्पृहो व्यग्रश्चाभिभानित्वं प्रयात इत्यहं सो ममेदमित्येवं मन्यमानो
१ ग. त्रैका आ । २ क. 'मुपग । ३ क. याद्धि मो। ४ क. दाद्धि मो' । ५ क.द्धा धृ। ६ क. तिौं । ७ क. "न्तिनिवृत्त। ८ क. ति नायं । ९ क. त्मनस्तादा। १० ग. प्रयाता।
For Private And Personal