SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३९ जाबालोपनिषत् । भाशयति तेन नासी भवतीति कतमच्चास्य स्थानं भवतीति भ्रुवो ओणस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवनादी० येणाविमुक्तस्थानं पृच्छति-कतमच्चास्येति । पुनरुक्तादन्यदप्यविमुक्तस्य किं स्थानमिति प्रश्नः । इतरो विदिताभिप्राय आह-भ्रुवोर्घाणस्य चेति । भ्रुवोर्घाणस्य च यः संधिः कूर्चाख्यस्तदविमुक्तस्य स्थानमित्यर्थः । तदुक्तम्- "इडा भगवती गङ्गा पिङ्गला यमुना नदी । तयोर्मध्ये प्रयागं तु यस्तं वेद स वेदवित्' इति । नासाग्रं च प्रयागस्तेन ततः पूर्वभागे भ्रमध्येऽविमुक्तमिति ज्ञेयम् । भ्रूघ्राणसंधेः संधित्वेन निमित्तान्तरमाह-स एष इति । द्यौर्लोकस्य द्युलोकस्य स्वर्गस्य च परस्य च यत्परो दिवो ज्योतिर्दीप्यते तस्य चैष एव संधिः । घ्राणमूलादग्धुिलोकस्तपोलोकान्तः। ललाटाच्चाऽऽरभ्य परः सत्यलोकः । अनेन शरीरेऽपि ब्रह्माण्डसंनिवेशोऽस्तीति सूचितम् । तदुक्तं गरुडपुराणे "ब्रह्माण्डे ये गुणाः सन्ति शरीरे तेऽप्यवस्थिताः । पातालं भूधरा लोकास्ततोऽन्ये द्वीपसागराः ।। आदित्याद्या ग्रहाः सर्वे पिण्डमध्ये व्यवस्थिताः । पादाधस्त्वतलं प्रोक्तं पादोज़ वितलं स्मृतम् ।। जानुभ्यां सुतलं विद्धि वितलं सर्वबन्धने । तथा तलातलं चोर्ध्व गुह्यदेशे रसातलम् ॥ पातालं कटिसंस्थं तु पादाद्यैर्लक्षयेद्बुधः । भूर्लोकं नाभिमध्ये तु भुवर्लोकं तदूर्ध्वके । स्वर्लोकं हृदये विद्यात्कण्ठदेशे महस्तथा । जनलोकं चक्रदेशे तपोलोकं ललाटतः ।। सत्यलोकं महारन्ध्रे भुवनानि चतुर्दश । त्रिकोणे संस्थितो मेरुरधःकोणे च मन्दरः ॥ शं०दी०निति वा पाठः । नाशयति तेन नासी भवति।शकारस्य सकारेण परिणामेन व्याख्यानम् । इत्युत्तरसमाप्तौ । वरणायां नास्यां च मध्ये प्रतिष्ठित इत्यनेन नासापुटयोरन्तरवस्थित इति सामान्यतः प्रतीयते तथाऽपि चतुरङ्गुलेऽस्मिन्देशे कतमञ्च कतम. देव । कतमञ्चास्येति वा पाठः । अस्याविमुक्तस्य स्थानं ध्यानस्थलं भवति । इति प्रश्नसमाप्तौ । उत्तरमाह-भ्रुवोर्घाणस्य च । घ्राणस्यापि । चकारस्त्रयाणां समु. चयार्थः । यः प्रसिद्धः । संधिर्भुवोर्घाणस्य मध्यवर्तिदेशः शास्त्रैकगम्योऽतिशयः । स एष द्यौर्लोकस्य परस्य च संधिर्भवतीति । मस्तककपालरूपस्य स्वर्गलोकस्य १ क. ख. 'यतीति। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy