SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। मद्धर्मनिरतं जनं बहुमन्यते निर्विचारकलोकं प्रमादयति प्राग् प्रवृत्तं सत्कर्त्तव्यलेशं परित्यजति भद्रकभावं रज्यते नितरां विषयेषु पश्यति तत्त्वबुड्या तत्माधनं धनकनकादिकं ग्टलाति तथोपदिशन्तं गुरूं वञ्चकबुद्ध्या नाकर्णयति तद्वचनं भाषते धर्मावर्णवादान् उद्घट्टयति धर्मगुरूणां मर्मस्थानानि लगति प्रतीपं कूटवादेन निराक्रियते पदे पदे गुरुभिः / ततश्चासौ चिन्तयति सुरचितग्रन्थप्रपञ्चा एते श्रमणा न निराक मादृशैः पार्यन्ते ततो मामलोकविकल्पजालेन विप्रतार्य पुनः करिष्यन्त्येते मायावितथात्मभक्ष्यस्थानमतो दूरत एव मयैते वर्जनौयाः स्वग्रहादारणीया दृष्टा अपि न सम्भाषणीया नामापि न सोढव्यमेतेषामित्येवं कदन्नकल्पधनविषयकलत्रादिके मूर्च्छितहृदयस्तत्संरक्षणप्रवणोऽयं जीवः सदुपदेशदायकान् महामोहवशगो वञ्चकत्वेन कल्पयन् रौद्रध्यानमापूरयति ततो नष्टविवेकचेतनतः मद्धर्माचार्यैरुभंकारनिखातकाष्ठकौलककल्यो लक्ष्यते / अत्र एव च तेषां सम्बधिन्या दयया दीयमानं तदानौं सुन्दरपरमात्रकल्पं सदनुष्ठानोपदेशं बराकोऽयं जीवो न जानौते न चेतःपरं विवेकिनां विस्मयकरमस्ति / यदेष जीवो महानरकगर्भपातहेतौ धनविषयादिके ग्टद्धात्मानन्तसुखमोक्षाक्षेपकारणं सदनुष्ठानं मद्गुरुदयोपनौतमवधीरयति / यथा च तेन महानस नियुक्तकेन तत्तथाभूतमसंभाव्यं व्यतिकरमवलोक्य चिन्तितं यदुत किं पुनरेष रोरो दीयमानमादरेणेदं परमानं न ग्टहाति नूनमयमस्य पापोपहतात्मतया न योग्य इति / तदत्रापि तुस्थं विज्ञेयम् / तथा हि। सद्गुरूणामपि तं तथा विधं विस्तरधषि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy