________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / हमकोऽयं जीवः पञ्चभूतात्मको वा विज्ञानमात्रं चेदं सर्वं शून्यरूपं वा न विद्यते वा कर्म महेश्वरवशादिदं म। नानारूपं वर्तत इत्यादयस्ते सर्वेऽपि भौममहायोधदर्शनासंग्रामशिरसि प्रत्यनौककातरनरा व निवर्तन्ते / ततश्चायं तदा जौवो मन्यते यदेते महात्मानो मह्यं कथयन्ति तत्सर्वमुपपद्यते मत्तोऽधिकतरं परौचितुं वस्तुतत्वमेत एव जानन्ति / ततश्च पदुकं कथानकं कथयता यदुत कदर्थनार्थमायाताः पश्चालमाः सुदारुणाः / दुर्दान्तडिम्भा ये तस्य दृष्ट्वा तं ते पलायिता इति // तदपि योजितं विज्ञेयम् / यतः कुविकल्पा एव दुर्दान्तडिम्भास्त एव जौवं कदर्थयन्ति तबित्तिश्च सुगुरुसम्पर्कणेति तदेवमपगतेषु सकलेषु कुविकल्पेषु यदायं जौवः मद्धर्मगुरूणां तबचनाकर्णनस्पृहया मनागभिमुखो भवति तदा ते परहितकरणकव्यमनितया सन्मार्गदेशनां कुर्वाणा: खल्वेवमाचक्षते यदुताकर्णय भो भद्र संसारे पर्यटतोऽस्य जीवस्य धर्म एवातिवत्मल हृदयः पिता धर्म एव गाढस्नेहबन्धुरा जनयित्री धर्म एवाभिन्नपदयाभिप्रायो भाता धर्म एव सदैकस्नेहरमवशा भगिनी धर्म एव समस्तसुखखनौभूतानुरका गुणवतौ भार्या धर्म एव विश्वासस्थानमेकरसमनुकूलं सकलकलाकलापकुशलं मित्रं धर्म एव सुरकुमाराकारधारकश्चि'तानन्दातिरेक हेतुस्तनयः धर्म एव शीलसौन्दर्यगुणलब्धजयपताकाकुलोचतिनिमित्तभूता दुहिता धर्म एवाऽव्यभिचारी बन्धुवर्ग: धर्म एव विनीतः परिकरः धर्म एव नरेश्वरता धर्म एव चक्रवर्त्तित्वं धर्म एव विबुधभावः धर्म एवामरेश्वरता धर्म एव वजाकारो For Private And Personal Use Only