SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। यत्पुनरभ्यधायि / यथाऽसौ रमवतीपतिः शीघ्रं तत्समौपमादरवशेनागच्छत् गत्वा चैह्येहि भद्र दौयते तुभ्यं भिक्षेत्येवं रोरमाकारितवानिति / तदेवमिह योजनौयं यदास्य जीवस्य पूर्वानन्यायेनानादौ संमारे पर्यटतः परिपक्का भव्यता शौणप्रायं क्लिष्टकर्म स्तोकमास्ते तच्छेषं तेनापि दत्तं रन्ध्र प्राप्ता मनुजभवादिसामग्री दृष्टं सर्वज्ञशासनं संजाता तत्र सुन्दरबुद्धिः प्रवृत्ता मनाक् पदार्थजिज्ञासा समुत्पन्नाकुशलकर्मलेशबुद्धिः / अथ चानुवर्तन्तेऽद्यापि पापकलाः तदेवंविधे भद्रकभावे वर्तमानस्य मञातायां भगवदवलोकनायां सद्धर्माचार्याः प्रादुर्भुततीव्रकरुणपरिणामाः सन्मार्गावतारणार्थं योग्यतां निचित्य भावतोऽभिमुखौभवन्ति तदेतत्तेषां तत्ममौपगमनमभिधीयते मञ्जातप्रमादाश्च कथयन्ति ते तस्मै यथा भद्राकृत्रिमोयं लोकोऽनादिनिधनः काल: शाश्वतरूपोऽयमात्मा कर्मजनितोऽस्य भवप्रपञ्चः तच्चानादिसम्बद्धं प्रवाहेण मिथ्यात्वादयस्तस्य हेतवः / तत्पुनर्दिविधं कर्म कुशलरूपमकुशलरूपं च। यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते / यत्पुनरकुशलरूपं तत्यापमधर्मश्वाभिधीयते / पुण्योदयजनितः सुखानुभवः पापोदयसंपाद्यो दुःखानुभवः / तयोरेव पुण्यपापयोरनन्तभेदभिन्नेन तारतम्येन संपद्यते खल्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसार विस्तार इति / ततश्चैवं विधं सद्धर्माचार्यवचनमाकर्णयतोऽस्य जीवस्य ते पूर्वमनादिकुवामनाजनिताः कुविकल्पाः प्रवर्त्तन्ते स्म / यदुताण्डसमुद्भूतमेतत्त्रिभुवनं यदि चेश्वरनिर्मितं वा ब्रह्मादिकृतं वा प्रकृतिविकारात्मकं वा यदि वा प्रतिक्षणविनश्वरं वा पञ्चस्कन्धा For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy