________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 उपमितिभवप्रपञ्चा कथा / करिछेऽहं यथाशक्ति वात्मल्यं जैनधर्मिणाम् / तात तत् कुर्वतो यूयमनुज्ञां दातमईथ // दूतश्च / मत्सङ्गेनैव तातोऽपि भद्रको जिनशासने / ततः सा मामिका तस्य प्रार्थना रुचिरा मता // राज्यं पुत्र तवायत्तमायत्तं तव जीवितम् / खाभिप्रेतमतः कुर्वन्न त्वं मां प्रष्टुमर्हसि // ततोऽहं हर्षपूर्णाङ्गः पतितस्तातपादयोः / महाप्रमाद इत्येवं ब्रुवाण: प्रोतमानमः // ततः प्रभृति सर्वोऽपि यो नमस्कारधारकः / मोऽन्यजोऽपि निजे देशे बन्धुबुद्ध्या मयेक्षितः // भोजनाच्छादनैर्दिव्यैरलङ्कारैः मरत्नकैः / धनेन च यथाकामं भृतः माधर्मिको जनः / अन्यच्च / अर्हतो यो नमस्कारं धत्ते पुण्यधनो जनः / स देश घोषणापूर्वं विहितोऽकरदो मया // माधवः परमात्मानः माध्यः परमदेवताः / गुरवः श्रावका लोका ममेति ख्यापितं मया // जिनेन्द्रशामने भक्तिं यः कश्चित् कुरुते जनः / अानन्दजलपूर्णाक्षस्तमहं बहुशः स्तुवे // यात्रास्नात्रमहोत्सर्ग प्रमोदमुदिताशयाः / For Private And Personal Use Only