________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 345 पृष्टश्चेदं भदन्तेह किं सारं जिनशामने // मुनिरुवाच / अहिंमा ध्यानयोगश्च रागादीनां विनिग्रहः / माधर्मिकानुरागश्च मारमेतज्जिनागमे // मया चिन्तितम्। सर्वारम्भप्रवृत्तानां मादृशां सुपरिस्फुटम् / अहिंमा प्राणिनां तावद्विधातुमतिदुःशका // निष्पकम्पमनःसाध्यो ध्यानयोगोऽपि मादृशाम् / विषया मिषमूढानां दूरादूरतरं गतः // रागादिनिग्रहोऽप्यत्र तत्त्वाभ्यामपरायणैः / अप्रमादपरैः शक्यः कर्तुं पुंभिर्न मादृशैः // माधर्मिकानुरागस्तु यो भदन्नेन साधितः / म कदाचिद्विधीयेत मादृशैरपि जन्तुभिः / तदत्र यत्नः कर्तव्यो यथाशनि मयाधुना / यतः मारमनुष्ठेयं नरेण हितमिच्छता // एवं निश्चित्य चित्तेन वन्दित्वा तं मुनीश्वरम् / प्रवर्धमानमंवेगस्ततोऽहं ग्रहमागतः // इतश्चैकसुतत्वेन जीवितादपि वल्लभः / अहं तातस्य सर्वत्र यथेच्छाकरणक्षमः / / विनयं राजनीतिं च अनुवर्तयता मया / तथापि तातः प्रच्छको प्रार्थितो न तथा गिरा // तद्यथा / 41 For Private And Personal Use Only