SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 उपमितिभवप्रपञ्चा कथा / खकोयदुश्चरितानुस्मरणेन पश्चात्तापमनुभवति सन्मार्गदायिनां च गुरूणामुपरि विपरीतमकां विरहयति तदानेनैतदुक्तं भवति / दये खल्वमौ कुविकल्पा: प्राणिनो भवन्ति / तद्यथैके कुशास्त्रश्रवणवासनाजनिताः / यदुताण्डसमुद्भूतमेतत्त्रिभुवनं ब्रह्मादिकृतं प्रकृतिविकारात्मकं क्षणविनश्वरं विज्ञानमात्र शून्यरूपं वा इत्यादयस्ते ह्याभिसंस्कारिका इत्युच्यन्ते। तथान्ये सुखमभिलषन्तो दुःखं द्विषन्तो द्रविणादिषु परमार्थबुद्ध्यवमायिनोऽत एव तत्संरक्षणप्रवणचेतमोऽदृष्टतत्त्वमार्गस्थास्य जीवस्य प्रवर्तन्ते यैरेष जीवोऽशकनौयानि शकते अचिन्तनीयानि चिन्तयति प्रभाषितव्यानि भाषते अनाचरणौयानि समाचरति। ते तु कुविकल्याः सहजा इत्यभिधीयन्ते तत्राभिसंस्कारिकाः प्रथमसुगुरुसंपर्कप्रभावादेव कदाचिनिवर्त्तरन्नेते पुनः सहजा यावदेष जौवो मिथ्यालोपत्तबुद्धिस्तावन्न कथञ्चिनिवर्तन्ते। यदि परमधिगमजसम्यग्दर्शनमेव प्रादुर्भुतमेतानिवर्त्तयतौति / यत्पुनरभिहितं यदुत तस्य द्रमकस्थ तस्मिन्नञ्जनमलिलदायके पुरुषे सजातविश्रंभस्थापि महोपकारितां चिन्तयतस्तथापि तत्रात्मौये कदनके यात्यन्तमूळ मा गाढं भावितत्वान्न कथञ्चिन्निवर्तत इति / तदेतज्नौवेऽपि योजनौयम् / तथाहि / यद्यपि क्षयोपशमगतं ज्ञानावरणं दर्शनमोहनौयं च ममुत्पन्न मम्यग्ज्ञानं सम्यग्दर्शनं च। अतएव निवृत्ता भवप्रपञ्चगोचरा तत्त्वबुद्धिः संजातो जौवादितत्त्वाभिनिवेश: ग्रहीताः परमोपकारकारितया सम्यग्ज्ञानदर्शनदायिनो भगवन्तः सद्धर्मगुरवः। तथाप्यस्य जीवस्य यावत्ते समुदौणे कषायद्वादशकं यावच्च प्रबलमद्यापि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy