SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / भाविनं गुरुविहितप्रयत्नमवगच्छति तन्माहात्म्यजनितामात्मयोग्यता ततो यो जौवो मादृशः प्रागत्यन्तक्लिष्टपरिणमतया धर्मगुर्वादिविषयेऽप्यनेककुविकल्पकरणपरोऽभूत् स तदा लधविवेकश्चिन्तयति यदुताहो मे पापिष्ठता अहो मे महामोहान्धता अहो मे निर्भाग्यता अहो मे कार्पण्यातिरेकः अहो ममाविचारकत्वं येन मयात्यन्ततुच्छधनस्लवादिप्रतिबद्धवान्तःकरणेन मता य एते भगवन्तः सर्वदा परहितकरणनिरतमतयो निर्दोषसन्तोषपोषितवपुषो मोक्षमुखलक्षणानि धनधनार्जनमवणान्तःकरणास्तषमुष्टिनिःमारसंमारविस्तारदर्शिनः स्वशरौरपञ्जरेऽपि ममत्वबुद्धिरहिता मदीयधर्मगुरुप्रभृतयः माधवः किं ते हरियन्ति ममानेन धर्मकथादिप्रपञ्चेन शठतया मां विप्रतार्य नूनमेते धनकनकादिकमिति प्रागनेकशः परिकल्पिताः / ततो धिङ् मामधमाधमदुष्टविकल्पकमिति / यदि घेते भगवन्तो मां प्रति परमोपकारकरणपरायण न स्यस्ततः किमिति सुगतिनगरगमनसम्बन्धबन्धुरमव्यभिचारिणं मार्गमादेशयन्तः सम्यग्ज्ञानदानव्याजेन महानरकवर्तनौप्रवृत्तचेतोवृत्तिं मां निवारयन्ति स्म किमिति वा विपर्यासपर्यामितचेतसो मे सम्यग्दर्शनसम्पादनदारेण निजशेमुथ्था निःशेषदोषमोषविशेषं विशेषतो विदधति स्म। न चैते निस्पहतातिशयेन समलोष्टहाटकाः परहिताचरणव्यमनितया प्रवर्त्तमानाः कदाचिदुपकार्यात्मकामात् कधित्प्रत्युपकारमपेक्षन्ते। न चैतेषां परमोपकारकारिणां भगवतां मादृशः खजौवितव्ययेनापि प्रत्युपकारः कत्तुं पार्यते प्रास्तां धमधानादिनेति / तावदेष जौतस्तदा संजातसम्यग्भावः पूर्वविहित For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy