SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥५॥ H धमूषिकागमनं श्रुतं, चिंतितं च सत्यमनयैवेदमाचरितमिति सनिःश्वासं स चिंतयतिस्म, ता- वगंधमूषिकापि सोमापुर्यो गत्वा रत्नवत्याः पुरः सर्वमपि कुमारस्वरूपं कमलवतीस्वरूपं चाऽकथयत्. रत्नवत्यपि प्रमोदवती जाता, स्वकीयपितरं पुरुषोत्तमनृपं कथयतिस्म, स्वामिन समाकार्यतां रणसिंहकुमारः, पुरुषोत्तमेनापि कुमाराकारणार्थ कनकपुरे नगरे कनकशेखरनृपपार्चे प्रेषिताः स्वसेवकाः, तैरपि तत्र गत्वोक्तं स्वामिन् रत्नवतीपाणिग्रहणमकृत्वांत. रालमार्गत एव प्रत्यागछता रणसिंहकुमारेणातीवाऽयुक्तमाचरितं, वयं हेपिताः, परं रत्नवती | तदेकाग्रचित्ता स्थितास्ति. ___ततः प्रेष्यतां रत्नवतीपाणिगृहणाथै कुमारः, कनकशेखरोऽपि रणसिंहमाहूयोक्तवान् ग. म्यतां रत्नवती विवाहार्थं; कमलवतीविरहव्यग्रचित्तेनापि तेन कनकशेखरनृपोपरोधेन तत्प्र. तिपत्रं. शुने दिवसे ससैन्यश्चलितः, शुभशकुनैः प्रेर्यमाणः प्रयाणं कुर्वन् पाडलीखंडपुरंप्र- ति प्रियाशुद्ध्यर्थ चलन कियता कालेन परिचमन चक्रधरग्रामसमीपोद्यानमाजगाम, तत्र पटावासे स्थितश्चक्रधरदेवार्चनार्थं गतः, तावत्कुमारस्य दक्षिणं चक्षुः स्फुरितं; चिंतितवांश्च अ. ॥ २४ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy