SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटति भवाव्यामनन्तकरुणानिधे ! । विधेहि विश्वनाथ ! त्वमनाथे मयि नाथताम् " ।। ४६६ ॥ [ शुष्कशिखरिणि कल्पशाखीव, निधिरधनग्राम इव, कमलखण्ड इव मारवेऽध्वनि भवभीमारण्य इह वीक्षितोऽसि । मुनिनाथ ! कथमपि दृष्टे भवति नयनसृष्टया सममय जन्म जिन ! सफलमभून्मम । अकृतपुण्यमपि सुकृतजनं प्रति लघुमात्मानमवैमि न संप्रति । ] स्तुत्वा च दक्षिणाशायामध्यास्य मणिजालकम् । उत्कीर्णी स्फाटिके पट्टे प्रशस्ति क्षणमैक्षत. ॥ ४६७ ॥ अचिन्तयच्च " नियमादिदं देवविनिर्मितम् । एतच्च कारितं येन, सरस्तेनैव खानितम् ॥ ४६८ ॥ अष्टादशलिपि त्यक्त्वा प्रशस्ताप्यक्षरावली । व्यक्तापि नोहितुं शक्या, दृष्टपूर्वेव किन्तु मे. " ॥ ४६९ ॥ इत्यादि चिन्तयन्नेव शुश्राव श्रुतिपेशलम् । हरिवाहननामाङ्कं श्लोकं केनाप्युदीरितम् ॥ ४७० ॥ अथ विस्मयमापन्नो जगत्यामेव पर्यटन । आलुलोके मठं दिव्यं रत्नवातायनैर्वृत्तम् ॥ ४७१ ॥ अपश्यत्तत्र सद्वेषं, सतोषमतिगर्वतः । गन्धर्वकमधीयानं लीलया द्विपदीमिमाम् ।। ४७२ ॥ " आकल्पान्तमर्थिकल्पद्रुम ! चन्द्रमरीचिसमरुचिप्रचुरयशोऽशुभरितविश्वम्भर ! भरतान्वयशिरोमणे ! || ४७३ ॥ जनवन्द्यानविद्याधर ! विद्याधरमनस्विनीमानसहरिणहरण ! हरिवाहन ! वह धीरोचितां धुरम्. ॥४७४॥ तेनाथ प्रत्यभिज्ञाय प्रणतः प्रीतचेतसा । मत्तवारणमध्यास्य तमुवाचासमस्थितम् ॥ ४७५ ।। " " प्रातरेवागमिष्यामी " त्याभाष्य हरिवाहनम् । गतेन किं कृतः क्षेपः सखे गन्धर्वक ! त्वया ? ॥ ४७६ ॥ किं वा तत्र त्वया दृष्टं ? क्वास्ते वा चित्रमायकः ? । कथायमचल: १ स्वच्छं केनेदं खानितं सरः १ ॥ ४७७ ॥ For Private and Personal Use Only
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy