SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री तिलक मञ्जरी ||१६|| www.kobatirth.org अथ हारीतदात्यूहच कोरकुलसङ्कलम्, । केलिकोकिलचक्रालिक्रौञ्चचातकराजितम् ॥ ४५१ ॥ लवङ्गपूगनारङ्गमातुलिङ्गनिरन्तरम् । तमालवकुलाशोकलकुचैलावनावृतम् ॥ ४५२ ॥ लीलाकन्दलितध्वान्तं, शैत्यकेलिनिकेतनम् । आलुलोके वरारामं कस्तूरीतिलकं भूवः ॥ ४५३ ॥ तदन्तर्दीप्ररत्नौघचीनांशुकमनोरमम्, । अद्राक्षीत्कल्पवृक्षाणां खण्डमाराममण्डनम् ॥ ४५४ ॥ तस्यापि मध्यभूभागे भासिताशेषदिग्मुखम् । शोणाश्मकूटसङ्घातैः कृतसन्ध्यासमागमम् ॥ ४५५ ॥ पीठबन्धेन तमसो दत्तवैभवम् । चन्द्रमः कान्तसोपानैश्चन्द्रांशुचयचञ्चुरम् ॥ ४५६ ॥ स्फुरत्तारावली रम्यं मुक्तमुक्तावचूलकैः । हेमप्राकारदीधित्या नित्योदितदिवाकरम् ॥ ४५७ ॥ 'राजराजस्य सर्वस्वव्ययेनापि किमीदृशम् । भवेन्न वेति' लोकानां दत्ततर्क विलोकनात् ॥ ४५८ ॥ देवायतनमद्राक्षीन्निर्मानुषममानुषे । भुवने सुलभालोकमनालोकितमन्यदा. ॥ ४५९ ॥ हिरण्यशृङ्खलानद्धवज्रघण्टातिचारुणः । दह्यमानागुरुस्तोमधूमध्याममणियुतः || ४६० ॥ तस्य प्रविश्य मध्ये ऽथ मणिसिंहासनस्थितम् । कस्तूरीपङ्कसङ्काशकुन्तलालङ्कतास्यकम् ॥ ४६१ ॥ भामण्डलप्रभापुञ्जेर्देषा ज्योसिततामसम् । छत्रत्रयीविनिनीं तत्रिलोकीप्रभुतोदयम् ॥ ४६२ ॥ शरण्यं, साकृति, शान्तं, तेजसा जितभास्करम् । अपश्यन्मणिनिर्माण, श्रीयुगादिजिनाधिपम् ॥। ४६३ ॥ उद्दामानन्द कन्दोयदङ्कराकारिकण्टकम् । सर्वाङ्गमथ विभ्राणः स्तुतिं कर्तुं प्रचक्रमे ॥ ४६४ ॥ ' श्रीमन्नाभिकुलाकाशप्रकाशनदिवामणे ! । प्रणेतः ! सर्वनीतीनां युगादिपुरुषोत्तम ! ॥ ४६५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कथा सार.. ॥१६॥ -
SR No.020832
Book TitleTilak Manjari Kathasar
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherVirchand Prabhudas Pandit
Publication Year1919
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy