SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथाभव्यं च सर्वेषा-मुपकारोऽस्ति तत्कृतः । जायतेऽवन्ध्यताऽप्येव-मस्याः सर्वत्र सुस्थिता ॥ १३५ ॥ यद्वा तत्तन्नयापेक्षा तत्कालादिनियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः ॥ १३६ ॥ तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥१३७ ॥ निशानाथप्रतिक्षेपो यथाऽन्धानामसंगतः। तद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥१३८ ॥ न युज्यते प्रतिक्षेपः सामान्यस्यापि तत् सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ॥१३६॥ कुदृष्टयादिवद् नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किन्तु सत्त्वार्थकृत् सदा ॥१४० ॥ निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानाद् ऋते न च । अतोऽप्यत्रान्वकल्पानां विवादेन न किंचन ॥१४१ ॥ न चाऽनुमानविषय एषोऽर्थस्तत्त्वतो मतः ।। न चातो निश्चयः सम्यग् अन्यत्राऽप्याह धीधनः ॥१४२।। यत्नेनानुमितोऽप्यर्थः कुशलैरनुमाभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥१४३ ॥ ज्ञायेरन हेतुवादेन पदार्था यद्यतीन्द्रियाः। कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ १४४ ।। न चैतदेवं यत् तस्मात् शुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात् त्याज्य एव मुमुक्षुभिः ॥ १४५ ॥ ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसंगतः । मुक्तौ धर्मा अपि प्रायस्त्यक्तव्या किमनेन तत् ॥ १४६ ॥ For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy