SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'चलणसहायो धम्मो' इत्यादिशास्त्रेण प्रसिद्धः अमूर्तरूपो धर्मास्तिकायनामा पदार्थ:-जीव-जडगतो अपेक्षाकारणत्वेन जैनदर्शने एव स्वीकृतः-सोऽपि अत्र सूत्रे तन्त्रतया विवक्षितःअप्रधानभावेन-इति । आक्षेपः ननु त्वया नवीनेन अर्वाग्दृशा स प्रसिद्धो धर्मास्तिकायः -अत्र सूत्रे अप्रधानभावेन एव केवलं भिन्नव्याख्यासंग्रहदशेनाय एव उल्लिखितः-न च स एव प्रधानभावेन अत्र निर्दिष्टः, तदियं कीदृशी खमनीषिका? परिहारः न चेयं स्वमनीषिका, किन्तु आगमपूर्वकम् , शिष्टानामुक्तिपूर्वकं चैतद् निर्दिष्टम्-उपर्युक्त-श्रीभगवतीसूत्रस्थपाठ एव अत्र निर्दिष्टं मम नवीनमपि व्याख्यानं दृढयति-इति न एतस्य व्याख्यानस्य आगमपूर्वकत्वे कोऽपि शङ्काकणः किञ्च, भगवान् सिद्धसेनोऽपि स्वीयवचनेन एतदेव व्याख्यानं समर्थयति. तथा च तद्वचनम् -- "प्रयोग-विस्रसाकर्म-तदभावस्थितिस्तथा । लोकानुभाववृतान्तः किं धर्माधर्मयोः फलम् ॥ २४ ॥ निश्चयद्वात्रिंशिका–१६. ईदृशावेव आक्षेप-परिहारौ वक्ष्यमाणे अधर्मसूत्रेऽपि समवबोध्यौ. गतिप्रतिषेधी अधर्मः ॥४६॥ अधर्मो हि आत्मनो विकासरूपां गति प्रतिषेधति, ततश्च For Private And Personal Use Only
SR No.020815
Book TitleTattvavatar
Original Sutra AuthorN/A
AuthorDevchandra Kacchi, Bechardas Jivraj
PublisherMeghji Thobhan Sheth
Publication Year
Total Pages92
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy