SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशस्तम्भः। तेष्वप्ययं परतरः प्रथितः पुराऽपि । लब्ध्वैनमेव हि गताः शिवमत्र लोकाः॥४॥ जग्मुर्जिनास्तदपवर्गपदं यदैव । विश्वं वराकमिदमत्र कथं विनास्मान् ॥ एतद्विलोक्य भुवनोहरणाय धीरैः । ___ मंत्रात्मकं निजवपुर्निहितं तदाऽत्र ॥५॥ इंदुर्दिवाकरतया रविरिंदुरूपः। पातालमंबरमिलासुरलोक एव ॥ किंजल्पितेन बहुना भुवनत्रयेपि । तन्नास्ति यन्न विषमं च समं च तस्मात् ॥६॥ सिद्धांतोदधिनिर्मथान्नवनीतमिवोद्धृतम् ॥ परमष्टिमहामंत्रं धारयेत् हृदि सर्वदा ॥७॥ सर्वपातकहर्तारं सर्ववांछितदायकम् ॥ मोक्षारोहणसापाने मंत्रे प्राप्नोति पुण्यवान् ॥ ८॥ धार्योयं भवता यत्नात् न देयो यस्य कस्यचित् ॥ अज्ञानेषु श्रावितोयं शपत्येव न संशयः॥९॥ * न स्मर्त्तव्योऽपवित्रेण न जने नाऽन्यसंश्रये ॥ नाऽविनीतेन नो दीर्घशब्देनाऽपि कदाचन ॥ १०॥ न बालानां नाऽशुचीनां नाऽधर्माणां न दुर्दशाम् ॥ + न प्लुतानां न दुष्टानां दुर्जातीनां न कुत्रचित् ॥ ११॥ अनेन मंत्रराजेन भूयास्त्वं विश्वपूजितः॥ प्राणांतेऽपि परित्यागमस्य कुर्यान्न कुत्रचित् ॥ १२॥ * न स्मर्तव्योपचित्तेन न शठेनान्यसंश्रये इति पुस्तकांतरे ॥ तथा अन्येषु श्राद्धदिनकृतश्राद्धविधिकौमुदीपंचाशकादिषु शास्त्रेष्वेवमुक्तं यथा सा काप्यवस्था नास्ति यस्यां नमस्कारो न स्मर्त्तव्य इति॥ + नाऽपूतानां न दुष्टानां दुर्जनानां न कुत्रचित् । इति पुस्तकांतरे ॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy