SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तनिरूपणम् । १०३ यामिन्द्रियनानात्वादीनां सिद्धिरिति ॥ ६० ॥ ऽऽ ॥ अभ्युपगम सिद्धान्तमुदाहरणं च दर्शयति । साधितः परतन्त्रे यः स्वन्तत्रे च समाश्रितः॥ ६१ ॥ सह्यभ्युपगमा न्याये मनसेोऽनुमतिर्यथा । काणादतन्त्रसाधितस्य नैयायिकानामभ्युपगमसिद्धान्त इति ॥ ६१ ॥ ऽऽ ॥ मनसः समाश्रयणं तस्यैव लक्षणान्तरमाह । तद्विशेषपरीक्षा वा सद्भावे ऽन्यत्र साधिते ॥ ६२ ॥ यथान्यत्र मनःसिद्धौ तस्याक्षत्वपरीक्षणम् । तन्त्रान्तरेण साधितसद्वावस्य कस्यचिदर्थस्य किञ्चिद्विशेष परीक्षणमभ्युपगमसिद्धान्तः । यथा तस्यैव मनसेो न्याये सूत्रकारैरेवात्मप्रतिपत्तिहेतूनां मनसि सद्भावादिति चोदापूर्वकं ज्ञातुर्ज्ञानसाधनेोपपत्तेः सञ्ज्ञाभेदमात्रमित्यादिभिरिन्द्रियत्वपरीक्षण मिति रित्याह । इति हेतोरिति । आदिशब्दान्नियतविषयत्वैककर्तृप्रेर्यत्वादिसंग्रहः ॥ ६० ॥ ऽऽ ॥ मनसि विधान्तरभ्रमं वारयति । तस्यैव लक्षणान्तरमिति । यथान्यत्रेत्येतद्विवृणोति । यथा तस्यैवेति । आत्मप्रतिपत्तिहेतुनामात्मसाधकलिङ्गानामिच्छादीनां सम्भवान्मनो धर्मत्वोपपत्तेरात्मेदं मनः पदार्थो नेन्द्रियमिति सूत्रार्थः । अस्तु तस्य ज्ञातुः सुखाद्युपलम्भे कस्यचिस्कारणस्यावश्यम्भावात् तस्य सञ्ज्ञामात्रे विवादों नेन्द्रियत्वे इति समाधानं सूत्रार्थः । आदिशब्दान्नियमश्च निरनुमान इत्याद्युत्तरसूत्रसंग्रहः । प्रथमलक्षणे वृद्धसम्मति For Private and Personal Use Only ८३५
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy