SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भट्टभास्करभाष्योपेता. जाय एहि सुवो रोहाव रोहाव हि सुवरहं नावुभयोस्सुवो रोक्ष्यामि वाजश्च प्रस॒वश्चापिजश्च क्रतुश्च सुअसि । जाये । एति । इहि । सुवः । रोहाव । रोहाव । हि । सुर्वः । अहम् । नौ । उभयोः। सुर्वः । रोक्ष्यामि । 'वाजः । च । प्रसव इति प्रसवः । च । अपिज इत्यपि-जःच । क्रतुः। च। 'जायामामन्त्रयते-जाये इति ॥ हे जाये एह्यागच्छ सुवः स्वर्ग स्वर्ग हेतुं निश्रेणि रोहाव त्वञ्चाहञ्च किं रोहावेति । 'चादिलोपे विभाषा' इति तिङन्तस्य निघातप्रतिषेधः । 'स्वरो रोहतौ छन्दसि' इत्युत्वम् ॥ 'जाया पतिभ्यामा पतिं प्रत्या]ह-रोहाव हीति ॥ एवं भवत्यात्विा] रोहाव सुवरावाम् । हिशब्दो यस्मादर्थे । यस्मात्सुवः तस्माद्रोहाव इति । अपदात्परत्वान्न निहन्यते, हियोगाच्च ॥ यजमान आह-अहमिति ॥ तर्हि नौ आवयोरुभयोरहं सुवो रोक्ष्यामि । पूर्ववदुत्वम् ॥ . ___ वाजप्रसवीया द्वादश त्रुवाहुतीर्जुहोति-वाजश्चेत्यादि ॥ प्राजापत्यास्सर्वाः ; तस्य सर्वमयत्वात् । वाजोन्नम् । प्रसवस्तस्योत्पत्तिः अनुज्ञा वा । थाथादिनोत्तरपदान्तोदात्तत्वम् । अपिजः तस्यैव पुनःपुनरुत्पत्तिः । अन्येषामपि दृश्यते' इति डः । ऋतुस्सङ्कल्पः भोगादिविषयः, यागो वा । सुवरादित्यः तस्योत्पत्तौ हेतुः । मूर्धा अहः; प्रथ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy