SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 68 'तैत्तिरीय संहित'. [का. १.प्र. ७. पि॒तरा॑ ॥ ३६ ॥ मा॒तरा॒ चा मा सोमो॑ अमृत॒त्वाय॑ गम्यात् । वाजि॑नो वाजजितो वाज सरि॒िष्यन्तो॒ वाज॑ जे॒ष्यन्तो॒ बृह॒स्पत॑र्मा॒गमव॑ जिघ्रत॒ पि॒तरा॑ ॥ ३६ ॥ मा॒तरा॑ च॒ । एति॑ । मा । सोम॑ः । अ॒मृ॒त॒त्वायेत्य॑मृतत्वाय॑ । ग॒म्या॒त् । "वार्जिनः । वाजजित इति वाज-जितः । वार्जम् । स॒रि॒ष्यन्त॑ः । वाज॑म् । जे॒ष्यन्त॑ः । बृह॒स्पतेः । Acharya Shri Kailassagarsuri Gyanmandir शम्भू विश्वस्य शं सुखं भावयन्त्यौ । मितादित्वाड्डप्रत्ययः । क्विपि वा द्विवचनस्य पूर्वसवर्णदीर्घत्वम् । किञ्च - पितरा मातरा च पिता माता च मामागच्छताम् । लेटि शपो लुक्, 'पितरा मातरा च छन्दसि' इति निपात्यते । यद्वा — उभयत्रापि 'सुपां सुलुक, इति सोराकारः । किञ्च - सोमश्च माममृतत्वाय अमरणत्वाय गम्यादागच्छेत् । लिङि शपो लुक् । आशिषि लिङ्गा ॥ " रथयुजोश्वान्नैवारं चरुमवद्यापयति वाजिन इति यजुषा ॥ हे वाजिनः अश्वाः वाजजितः वाजमन्नं जेतुमुद्यताः । ' विभाषितं विशेषवचने बहुवचनम्' इति पूर्वस्याविद्यमानवत्त्वाभावः । वाजं वाज हेतुमार्जिं सरिष्यन्तस्सर्तुकामाः सृत्वा च वाजमाजि जेष्यन्तो जेतुकामाः । उभयत्रापि हेतौ शता । सरणार्थं जयार्थं चेत्यर्थः । बृहस्पतेः बार्हस्पत्यस्य चरोर्नैवारस्य भागमवजिघ्रत । बृहस्पति - शब्दे रावुक्तौ । ' कर्षात्वत:' इति भागशब्दोन्तोदात्तः ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy