SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 ormwww तैत्तिरीयसंहिता. [का. १. प्र. ७. वाजिनो हवेषु । देवाता मतद्रवस्स्वर्काः । जम्भयन्तोऽहिं वृकर र क्षा सि सम्य॒स्मद्युयवन्न् ॥३५॥ भवन्तु । वाजिनः। हवैषु । देवतातेति देव-ताता। मतद्भव इति मत-द्रवः । स्वर्का इति सु-अर्काः। जम्भयन्तः । अहिम् । वृकम् । रक्षा सि । सनेमि । अस्मत् । युयवन् ॥ ३५॥ अमीवाः । त्रिपदा त्रिष्टुप् ॥ नोस्माकं शं भवन्तु सुखहेतवो भवन्तु हवेषु आहानेषु । पूर्ववदप । वाजिनोश्वाः देवताता देवास्तायन्ते विस्तार्यन्ते पृथक्पृथगाराध्यन्तेस्मिन्निति देवतातिर्यज्ञः । परमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन 'अनुनासिकस्य क्विझलोः' इति पूर्वपदस्य दीर्घत्वम्, तत्रानुनासिकलोपः, पूर्ववत्सप्तम्या डादेशः । दासीभारादिः । मितद्रवः व्याख्यातम् *। स्वर्काः शोभनगमनाः शोभनस्तुतयो वा । 'नसुभ्याम्' इति स्वरः । जम्भयन्तः भञ्जयन्तः अहिमागत्य हन्तारं वृकं हिंसकं चोरादिकं रक्षांसि च । यहा-अहिमागत्य हन्तारं वृकमपहर्तारम् । कुक वृक आदाने, इगुपधात्कः । रक्षांसि धर्मविनकारीणि । सनेमि क्षिप्रमित्येके, पुराणमित्यन्ये। अस्मदस्मत्तः युयवन् यावयन्तु पृथक्कुवन्तु । किञ्च-अमीवाः रोगांश्च युयवन्नित्येव । आगत्य हिंसन्तीत्यमीवाः । मीयतेरादिप्रत्ययः, उपसर्गस्य च ह्रस्वत्वं निपात्यते । यौतेलेटि शपश्श्लुः, 'छन्दस्युभयथा' इत्यार्धधातुकत्वात् ङित्त्वाभावे गुणः ॥ * सं. १-७-८.12 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy