SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ७.] भटभास्करभाष्योपैता. 57 विष्णोः कान्तमसि विष्णोर्विक्रान्तमस्य॒ङ्कौ न्यङ्काभितो रथं यौ ध्वान्तं वाताग्रम सञ्चरन्तौ दूरेहेष्णोः । कान्तम् । असि । विष्णोः । विक्रान्तमिति वि-कान्तम् । असि । अङ्क । न्यङ्काविति नि-अङ्कौ । अभितः । रथम् । यौ । ध्वान्तम् । वाताग्रमिति वात-अग्रम् । अन्विति । सञ्चरन्ताविति सं-चरन्तौ । दूरेहेतिरित दूरे-हेतिः । क्रान्तमासि यत्पूर्वं विष्णुना कृतं क्रमणं, तदेव त्वमसि तद्वज्जयसाधनं भविष्यसि अस्माकम् । विष्णोर्विक्रान्तं विजयः, तदेव त्वमसि तद्विजयसाधनत्वात् । पूर्ववद्गतिस्वरः ।। रथस्य चक्रे पक्षसी वाभिमृशति-अङ्काविति त्रिष्टुभा ॥ अङ्कौ लक्षणभूतौ रथस्य । अकि लक्षणे, करणे घञ् । अञ्चतेर्वा । याभ्यां रथोञ्चति गच्छति तादृशौ । उञ्छादिष्टव्यः । न्यौ नियतगमनौ निश्चितगमनौ वा । क ? अभितो रथं रथस्य पार्श्वयोः यो नियतगमनौ । 'नेरनिधाने ' इत्युत्तरपदान्तोदात्तत्वम् । ध्वान्तं शब्दितं शब्दवत् । णिचि व्यत्ययेनेडभावः । वाताग्नं वातस्य पूर्वभागं अनुसञ्चरन्तौ शीघ्रतया वातमतिलङ्घय चरन्तौ तावको । दूरेहेतिः, इन्द्रियावान्, पतत्रीत्येतन्नामानस्त्रयो नोस्माकममयः पप्रयः पूरयितारः कर्मणाम् । एतावको पारयन्तु कर्मणि समर्थों कुर्वन्तु । यद्वा-नोस्माकं पप्रयः अस्मद्धितार्थं तौ पारयन्तु । प्रा पूरणे, छान्दसस्य लिटः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy