SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 442 mmmmm तैत्तिरीयसंहिता. का. १. प्र. २. त्यं चित्रम् । स प्रवन्नवीयसादिति । उ । त्यम् । "चित्रम् । सः । प्रत्नवदिति प्रत्न-वत् । नवीयसा । अग्ने । द्युम्नेन । संयतेति इत्यस्याः पुरोनुवाक्या-उदु त्यमिति गायत्री ॥ व्याख्यातेयं ग्रहेषु* अस्या इदं प्रतीकग्रहणम् । तमिमं जातवेदसं देवं सूर्य केतवो रश्मय उद्वहन्ति विश्वस्य लोकस्य दर्शनार्थमिति ॥ ___ तत्रैव याज्या-चित्रमिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता* । प्रतीकग्रहणमेवेदम् । चित्रं चायनीयं देवानामनीकं चमूस्थानीयं मित्रादीनामपि चक्षुस्स्थानीयमुदगाद्गच्छति । उदुत्यं च द्यावाप्रथिवी अन्तरिक्षं च आप्रा आप्रात् आपूरयन्ति । जगतः जङ्गमस्य तस्थुषः स्थावरस्य चात्मा सूर्य इति ॥ “आनेयमष्टाकपालं निर्वपेत्सावित्रं द्वादशकपालं भूम्यै चरुं यः कामयेत हिरण्यं विन्देय हिरण्यं मोप नमेत् + इत्यस्यास्त्रिहविष्काया आनेयस्य पुरोनुवाक्या—स प्रनवदिति गायत्री ॥ हेमे स वं प्रत्नवत्पुराणाम् । यद्वा-प्रागिव । यद्वा–पुरातनेनेव नवीयसा नवतरेण द्युम्नेन यशसा धनेन वा संयता त्वमेव सङ्गच्छता । 'शतुरनुमः' इति व्यत्ययेन न प्रवर्तते । यहात्वयैव संयता धनेन । यमेः विपि अनुनासिकलोपे तुक् , कदुत्तरपदप्रकृतिस्वरत्वम् । संयतशब्दादेव तृतीयाया आकारः । 'परादिश्छन्दसि' इत्युत्तरपदाधुदात्तत्वम् । ईदृशेन घुम्नेन भानुना *सं. १.४.४३.1-2 . सं. २-३-२, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy