SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 434 तैत्तिरीयसंहिता. [का. २. प्र. २ सजातानामुपहित्यै पृश्नियै दुग्धे प्रैय्यङ्गवं चरुं निर्वपेन्मरुद्भ्यो ग्रामकामः पृश्रियै वै पयसो मरुतो जाताः पृश्नियै प्रियङ्गवो मारुताः खलु वै देवतया सजाता मरुत एव स्वेने भागधेयेनोपं धावति त एवा स्मै सजातान्प्र यच्छन्ति ग्राम्यैव भजातानाम् । उपहित्या इत्युप-हित्यै । पृश्रियै । दुग्धे । प्रैय्य॑ङ्गवम् । चरुम् । निरिति । वपेत् । मरुद्र्य इति मरुत्-भ्यः । ग्रामैकाम इति ग्रामकामः । पृश्नियै । वै । पय॑सः । मरुतः। जाताः। पृश्रियै । प्रियङ्गवः । मारुताः । खलु । वै । देवतया । सजाता इति स-जाताः । मरुतः । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव । भवति । - पश्नियै दुग्धे इत्यादि ॥ प्रभिः श्वेता गौः । शुलविन्दुचितेत्येके । प्रैय्यङ्गवमिति । प्रियङ्गः धान्यविशेषः । विकारे 'ओरञ्' इत्यञ् । एभियै प्रियङ्गव इति । पयसो जाता इत्येव । मारुताः खलु वा इत्यादि । गतम् ।। For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy