SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. [का. १. प्र. ७. ध्रुवां वै रिय॑मानां यज्ञोर्नु रिच्यते यज्ञं यजमानो यजमानं प्र॒जा ध्रुवामाप्याय॑मानां यज्ञोन्वा प्यायते यज्ञं यजमानो यज॑मानं प्र॒जा आ प्यायतां ध्रुवा घृतेनेत्या॑ह ध्रुवामेवा प्याययति तामाप्यायमानां यज्ञोन्वा प्यायते यज्ञं यज॑मानो यज॑मानं 'ध्रुवाम् । वै। रिव्यमानाम् । यज्ञः। अन्विति । रिच्यते । यज्ञम् । यज॑मानः । यज॑मानम् । प्रजा इति प्र-जाः । ध्रुवाम् । आप्यायमानामित्याप्यायमानाम् । यज्ञः । अनु । एति । प्यायते। यज्ञम् । यज॑मानः । यज॑मानम् । प्र॒जा इति प्रजाः । एति । प्यायताम् । ध्रुवा । घृतेन । इति । आह । ध्रुवाम् । एव । एति । प्याययति । ताम्। आप्यायमानामित्या-प्याय॑मानाम् । यज्ञः। अनु। एति । प्यायते । यज्ञम् । यज॑मानः । यजमानम् । 'आप्यायतामिति ध्रुवाया आप्यायमानाया अनुमन्त्रणम् । तामाप्यायमानां स्तोतुमाह-ध्रुवां वा इत्यादि ॥ अनोर्लक्षणे कर्मप्रवचनीयत्वम् । रिचिर रेचने, रौधादिकः, कर्मकर्तरि यक् व्यत्ययेनाद्युदात्तत्वम् । 'अचः कर्तृयकि' इति वा व्यत्ययेना For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy