SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.) भास्करभाष्योपेता. 277 उत्तमः पशुरासीत्तं पृष्ठं प्रति सङ्घह्योदक्खिदत्त सहस्रं पशवोनूदायन्स्थ उन्नतोभवद्यः पशुकांमस्स्यात्स एतमैन्द्रमुत्तमा लभेतेन्द्रमेव स्वेन भागधेयेनोपं धावति स एवासः । यः । उत्तम इत्युत्-तमः । पशुः । आसीत् । तम् । पृष्टम् । प्रतीति । सङ्गृह्येति सं-गृह्य । उदिति । अख्खिदत् । तम् । सहस्रम् । पशवः । अनु । उदिति । आयन्न् । सः। उन्नत इत्युत्नतः । अभवत् । यः। पशुकाम इति पशु-कामः । स्यात् । सः। एतम् । ऐन्द्रम् । उन्नतमित्युत्-नतम् । एति । लभेत । इन्द्रम् । एव । स्वेने। भागधेयेनेति भाग-धेयैन । उपेति । धावति। सः । एव । अस्मै । पशून् । प्रेत । यच्छति । वसतां पशूनाम्मध्ये य उत्तमः पशुरासीत्, तं पृष्ठं प्रतिसङ्गह्य पृष्ठे गृहीत्वा उदक्खिदत् उत्क्षिप्तवान् । छान्दसो वर्णोपजनः । उत्तमशब्द उञ्छादिषु निपात्यते, तेनान्तोदात्तः । लक्षणे प्रतेः कर्मप्रवचनीयत्वम् । तमनु सहस्रं पशव उदायन् उदगच्छन् । स उत्तमः पशुरुन्नतोभवत् । उन्नतं पृष्ठभागेस्यास्तीति लक्षणया For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy