SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २२.] भभास्करभाष्योपेता. 225 शूरॊ वा पृत्सु कासु चित् । देवानां य इन्मनो यजमान इय॑क्षत्यभीद यज्वनो भुवत् । न यजमान रिष्यवतः। रथः ॥ ४० ॥ शूरः । वा । पृत्स्विति पृत्-तु । काहुँ । चित् । देवानाम् । यः । इत् । मनः । यज॑मानः । इय॑क्षति । अभीति । इत् । अयज्वनः । भुवत् । “न । यजमान । रिष्यसि । इति पादत्रयं सर्वास्वनुषज्यते । तत्र हेढे सोमारोद्रे-मश्वित्यादि । मक्षु शीघ्रम् । 'अन्येषामपि दृश्यते' इति संहितायां दीर्घत्वम् । देववतः यज्वनः । स हि देववान्, देवानिष्टवान् तैस्तद्वान् भवति । रथः स रथः शीघ्रो भवति शीघ्रं गच्छति निस्सङ्गः पृत्सु सङ्गामेषु शूरो वा शूर इव । वाशब्द उपमार्थीयः । यथा शूरो विक्रान्तः पुरुषः कासुचित्पत्सु निस्सङ्गश्शीघ्रं गच्छति एवं देववतो रथः । यद्वा-शूर इति षष्ठयर्थे प्रथमा । शूरस्येव रथो देववतश्शीघ्रं गच्छतीति । कः पुनरसौ देववानित्याह-य एव देवानाम्मनो भवति, यमेव देवा मन्यन्ते, देवानेव वा यो मन्यते । ईदृशो यो यजमानः इयक्षति पुनर्देवान्यष्टुमिच्छति । आदिवर्णलोपश्चान्दसः । किञ्च-अयज्वनः अयजमानान् अभिभुक्त् अभिभवदेव । तस्माद्यमप्येवमर्थं यजामह इति । भवतेलेटि शपो लुक्, 'लेटोडाटौ' इत्यडागमः, 'भू सुवोस्तिङि' इति गुणाभावः ॥ 12अथ द्वितीया-हे यजमान इष्टयादीन् कुर्वाण त्वं न रिष्यसि 28 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy