SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २२.] भभास्करभाष्योपेता. 223 सि सुक्रतू । प्र बाहवा सिसृतं जीवसे न आ नो गव्यूंतिमुक्षतं घृतेन। आ नो जनै श्रवयतं युवाना श्रुतं सि । सुक्रतू इति सु-ऋतू । 'प्रेति । बाहर्वा । सिसृतम् । जीवसे । नः। एति । नः। गव्यूतिम् । उक्षतम् । घृतेन । एति । नः । जनै । श्रवयतम्। युवाना । श्रुतम् । मे। मित्रावरुणेति मित्रा-वरु - - - - तत्रैव याज्या-प्र बाहवेति त्रिष्टुप् ॥ बाहोर्बलं बाहुशब्देनोच्यते । अर्श आदित्वादच् । बाहवा बाहवौ बाहुबलवन्तौ युवाम् । छान्दसं प्रत्ययात्पूर्वस्योदात्तत्वम् । प्रसिसृतमागच्छतम् । यहा-बाहवा बाहुबलेन सह बाहुबलवन्तावागच्छतम् । तृतीयैकवचनस्य नाभावाभावे गुणश्छान्दसः । किमर्थं ? नोस्मान् जीवसे जीवयितुम् । 'तुमर्थे सेसेन् ' इत्यसेप्रत्ययः । अस्माकं वा जीवसे जीवनाय । असुन्याद्युदात्तत्वाभावश्छान्दसः । आगत्य च नोस्माकं गव्यूति घृतेन समन्तादुक्षतमिति गतम् । किञ्चनोस्मान् जने जनेषु जनपदेषु समन्ताच्छ्रावयतम् । यद्वा-अस्माकं जनपदेषु युवयोर्बाहुबलं ख्यापयतम् । शृणोतेणिचि वृद्ध्यभावश्चान्दसः । हे युवाना युवानौ नित्यतरुणौ मिश्रितौ वा । पूर्ववदाकारः । हे मित्रावरुणा मित्रावरुणौ इमा इमान् अस्मदीयान् हवा हवान् आह्वानानि । पूर्ववच्छस आकारः, ह्वयतेः पूर्ववदप्सम्प्रसारणं च । श्रुतं शृणुतम् । शपो लुक्, पादादित्वान्न निहन्यते ॥ . For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy