SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 तैत्तिरीयसीहता. का. १. प्र.८. दान्त्यनुपूर्व वियूर्य । इहेहैषां कृणु त भोजनानि ये बहिषो नमोवृचित् । या । दान्ति । अनुपूर्वमित्यनु-पूर्वम् । वियूयेति वि-यूर्य । इहेहेतीह-इह । एषाम् । कृणुत । भोज॑नानि । ये । बर्हिषः । नमौवृक्तिकोपमेयत्वादुपमायाः । यवमिति जातावेकवचनम् । अयमर्थःयथा यवादिबहुधान्यवन्तो यवादीन् सहोत्पद्यमानाननुपूर्व परिपाट्या वियूय पृथक्कृत्य दान्ति पृथक्वेन स्थापयन्ति, परस्परं काण्डपलालादिभ्यो वा । दा प्लवने, आदादिकः । यवमन्तो यवं यथा तुषकणादिभ्यः पृथक्कृत्य तानि शोधयन्ति । दैप् शोधने, भौवादिकः, 'बहुलं छन्दसि' इति शपो लुक् । तथा यूयमपि इहेह एषां भोजनानि कृणुत अस्वादुभूतं तुषादिकं प्रथकृत्य भोजनानि भोक्तव्यानि स्वादूनि कृणुत उत्पाद्य धारयत । इहेहेति वीप्सा । सर्वत्र स्थानेस्थाने गृहेगृहे लोकेलोके वा । 'अनुदात्तं च' इति द्वितीयस्य निघातः । वियूयेति यौतेर्त्यपि छान्दसो दीर्घः । उक्तमेषां भोजनानि कृणुतेति, केषामित्याह -ये बर्हिषो यज्ञस्य नमोवृक्ति नमस्कारनाशनं सान्नस्य[साङ्गस्य नाशनं न जग्मुर्न गताः ये यज्ञस्य नमस्कारादिकं न नाशयन्ति अस्माकमुपकारिणः तेषां कृणुत । ये पुनर्नाशयन्ति ते बनेन विनाश्यन्ताम् । यथोक्तं 'नमोवृक्तिमेवैषां वृते'* इति । नमश्शब्दे उर्यादिगतित्वात् 'तादौ च निति' इति प्रकृतिस्वरत्वम् ॥ *सं. ३.१.३० For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy