SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 तैत्तिरीयसंहिता. का. १. प्र. ८ मा तिर्यश्चमन्वञ्च मा पात दिग्भ्योमा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात हिरण्यवर्णावुषसां विरोकेऽयस्स्थू णावुदितौ सूर्यस्या रोहतं वरुण अन्वश्वम् । मा । पात । दिग्भ्य इति दिक्-भ्यः। मा। पात । विश्वाभ्यः । मा । नाष्ट्राभ्यः । पात । "हिर॑ण्यवर्णाविति हिरण्य-वौँ । उषाम् । विरोक इति वि-रोके । अयस्स्थूणावित्ययः-स्थूणौ । उदितावित्युत्-इतौ । सूर्यस्य । एति । तिरश्चीनगमनं पार्श्वयोश्चरन्तम् । तथा पात मान्वञ्चं अन्वग्गमनं पृष्ठतो गच्छन्तम् । ऋत्विगादिना क्विन् । किं बहुना; दिग्भ्यस्सर्वाभ्यो मा पात सर्वामु दिक्षु स्थितं, सर्वदिगवस्थितशत्रुपीडाभ्यो वा । अपि च–विश्वाभ्योपि भौमान्तरिक्षाप्रभवाभ्योपि नाष्ट्राभ्यः नाशहेतुभ्यः पात माम् । नशेरौणादिकस्त्रप्रत्ययः, वृद्धिश्च ॥ बाहू उद्गृह्णाति-हिरण्यवर्णाविति त्रिष्टुभा ॥ हे हिरण्यवर्णी हिरण्मयाभरणसन्नडौ हिरण्यवदुज्ज्वलवर्णों वा । हे ईदृशौ बाहू । अयस्स्थूणौ वा । अयस्स्थूणसदृशौ अप्रधृप्यौ । 'इवे प्रतिकृतौ' इति कनो 'देवपथादिभ्यश्च' इति लुप् , 'स्फिगन्तस्योपमेयनामधेयस्य' इत्याद्युदात्तत्वम् । अतश्च बाहू एकैकेनामन्त्र्येतेहे वरुण शत्रूणां वारक हे मित्र तेषां प्रमापक अस्माकं वा हिंसायास्त्रायक ईडशौ युवां गर्त एतं रथटष्ठं आकाशोदरं वा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy