SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. का. १. प्र. ७. मिडायामुप ह्वयते व्यस्तमिव वा एतद्यज्ञस्य यदिडा सामि प्राश्नन्ति ॥ ४ ॥ सामि मार्जयन्त एतत्प्रत वा असुराणां यज्ञो व्यच्छिद्यत ब्रह्मणा देवास्सम॑दधुर्ब्रहस्पतिस्तनु तामिमं न इत्याह ब्रह्म वै दे॒वानां इायाम् । उपेति । ह्वयते । व्यस्तमिति विअस्तम् । इव । वै । एतत् । यज्ञस्य॑ । यत् । इडौ । सामि । प्राश्रन्तीति प्र-अनन्ति ॥ ४ ॥ सामि । मार्जयन्ते । एतत् । प्रतीति । वै । असुराणाम् । यज्ञः। वीति । अच्छिद्यत । ब्रह्मणा । देवाः । समिति । अधुः । बृहस्पतिः । तनुताम्। इमम् । नः । इति । आह । ब्रह्म । वै । देवानाम्। बृहस्पतिः । ब्रह्मणा । एव । यज्ञम् । समिति । 'व्यस्तमिति ॥ भावे निष्ठायां व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । 'उदात्तस्वरितंयोर्यणः' इत्याकारस्स्वयते । एतत्प्रतीति । अत एवैतस्मिन् प्रदेशे असुराणां यज्ञो व्यच्छिद्यत अतः परं लुप्त एवाभवत् । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वम् । देवास्तु विच्छिन्नं यज्ञं ब्रह्मणि समदधुः संहितमकुर्वन् । तस्मात् 'बृहस्पतिस्तनुतामिमं नः'* इति मार्जनमन्त्रे वचनं ब्रह्मणि सन्धानप्रति *सं. १-६-३९. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy