SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 तैत्तिरीयसंहिता. का. १.प्र. ८. निर्गृहप॑तीना सोमो वनस्पतीना रुद्रः पशूनाम् ॥ १८ ॥ बृहस्पतिर्वाचामिन्द्रो ज्येष्ठानो मित्रसत्यानां वरुणो धर्मपतीनां ये देवा देवसुवस्स्थ त इमामुष्यायति गृह-पतीनाम् । सोमः। वनस्पतीनाम् । रुद्रः। पशूनाम् ॥ १८॥ बृहस्पतिः । वाचम् । इन्द्रः। ज्येष्ठानाम् । मित्रः। सत्यानाम् । वरुणः । धर्मपतीनामिति धर्म-पतीनाम् । ये । देवाः । देवसुव इति देव-सुर्वः । स्थ । ते । इमम् । आमुष्या प्रेरणमनुज्ञैव । सर्वत्रानुज्ञातो भवेत्यर्थः । थाथादिना प्रसवशब्दोन्तोदात्तः । गृहपतीनामिति । भावप्रधानो निर्देशः । यानि गृहपतित्वानि बहुविधानि तदर्थं सुवताम्, सोमस्त्वां वनस्पत्यर्थ सुवताम्, रुद्रः पशूनां पतिः त्वां पश्वर्थ सुवतां, वागर्थ बृहस्पतिस्सुवताम्, ज्येष्ठानां ज्येष्ठत्वाय इन्द्रस्सुवताम्, सत्यत्वाय मित्रस्सुवताम्, धर्मपतित्वार्थ वरुणस्सुवताम् । हे देवा अग्न्यादयो वरुणान्ताः ये यूयं देवसुवस्स्थ देवस्य दानादिगुणयुक्तस्य यजमानस्य सवितारः प्रेरकास्स्थ ते यूयं यस्मादेवं प्रसवादीनामनुज्ञातारः तस्मादिममा. मुष्यायणं सिंहवर्मणः पुत्रं नन्दिवर्माणं अनमित्रायानमित्रत्वाय अविद्यमानशत्रुत्वाय सुवध्वम् । अनुजानीत अशत्रुमेनं कुरुतेत्यर्थः । इममामुष्यायणमिति सर्वनामद्वयं विशेषार्थमुपादीयते । अमुष्यश For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy