SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 तैत्तिरीयसंहिता. [का. 1. प्र. ८. सोमाय वनस्पतये श्यामाकं चरु५ सवित्रे सत्यप्रेसवाय पुरोडशं द्वादशकपालमाशूनां ब्रीहीणा५ रुद्राय पशुपतये गावीधुकं चरुं बृहस्पतये स्पतये । श्यामाकम् । चुरुम् । सवित्रे । सत्यप्रसवायेति सत्य-प्रसवाय । पुरोडाशम् । द्वादशकपालमिति द्वादश-कपालम् । आशूनाम् । व्रीहीणाम् । रुद्राय॑ । पशुपतय इति पशु-पतये । गावीधुकम् । चरुम् । बृहस्पतये । वाचः। पतये । स्स्वामी गृहपतिः । ‘पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । कृष्णव्रीह्यादयो वाक्यशेषात्प्रायशः प्रसिद्धाः कृष्णवर्णाः, कृष्णाः । वीहीणामित्यादौ 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । वनानां पतिस्स्वामी वनस्पतिः । पारस्करादित्वात्सुट् , 'उभे वनस्पत्यादिषु' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । श्यामाकाः श्यामाकाख्याः । सवित्रे 'उदात्तयणः' इति विभक्तिरुदात्ता । सत्यप्रसवायामोधाभ्यनुज्ञाय । आशवप्षाष्टिका इत्येके । त्रिपक्षपच्या इत्यन्ये । पशूनां पतिस्स्वामी पशुपतिः । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । गावीधुकास्तृणतण्डुलाः । बृहतां पतिः बृहस्पतिः । वनस्पतिवत्सु टरौ । वाचस्पतये । 'सावेकाचः' इति षष्ठ्या उदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इति सहितायां सत्वम् । 'षष्ठीयुक्तच्छन्दसि वा' इति पत्युर्घित्वम् । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy