SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १३.] भट्टभास्करभाष्योपेता. 103 पुरोरमिन्द्राय शूषमर्चत । अभी के चिदु लोककृत्सङ्गे समत्तुं वृत्रअस्मै । पुरोरमिति पुरः-रथम् । इन्द्राय । शूपम् । अर्चत । अभीके । चित् । उ । लोककदिति लोक-कृत् । सङ्गे । समत्स्विति समत्-सु । वृत्रचतुर्थी । अस्येन्द्रस्य पुरोरथं रथस्य पुरस्तात् । 'पुरोव्ययम्' इति गतित्वम् । रथस्याग्रतो यथा शूषं बलं प्रोवर्चत प्रकघेणं सुखेन च वाग्भिरभ्यर्चयत । प्रो इति निपात:मुदाय ओदन्तः, 'सुञः' इति सोष्पत्वम् । स चास्माभिरर्चितबलः अस्माकं बोधि अस्मद्बुध्यतां रक्ष्यत्वेन स्मरतु । 'अधीगर्थ' इति कर्मणि षष्टी । बुधेश्छान्दसे लुङि 'दीपजनबुध' इति च्लेश्चिणादेशः, . 'बहुलं छन्दस्यमाङयोगेपि' इत्यडभावः । इन्द्रो विशेष्यते--अभीके चित् अभ्यर्णेपि परबले योद्धं कामयमानोपि लोकरूत् स्थानरुत् एवमेव वैमुख्यं भजते । केशाकेश्यवस्थायामपि परबलेनार्दितोपि युद्धभूमौ स्थितिमानेव भवतीति। केत्यत्राह-समत्सु सङ्ग्रामेषु सङ्गे सति यदा समत्सु सङ्गं करोति तदाभीके अन्तिकेपि लोकळदेव । वृत्रहा वृत्रं हतवान् खल्वसाविति । 'अनुकाभिकाभीकः कमिता' इति निपात्यते । सह माद्यन्त्यास्विति समदः । समानं माद्यन्ति वा, 'समानस्य सः' इति सभावः । स खलिवन्द्रश्चोदिता सर्वेषां धनानां दाता प्रेरयिता । चुद सञ्चोदने, ण्यन्तात्तचि ‘बहुलं संज्ञाच्छन्दसोः' इति णिलुक् । किञ्च-तस्येन्द्रस्य प्रसादेन अन्यकेषां परेषां याकाः । उभयत्रापि कुत्सायां प्रागिवीयः कः । अधिधन्वसु For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy