SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ३.] भट्टमास्करभाष्योपेता 19 19 दयस्व स्वाङ्कतोस मधुमतीर्न घ-वन्न् । मादयस्व । स्वाङ्कतः। असि । 'मधुमयेन तेजसान्तर्दधामि छादयामि यथा*हमेवेदं सर्व स्यां, यथान्तर्यामेण सर्वमन्तर्धाय त्वमेव सर्वमभूः । यथा 'ते देवा अमन्यन्तेन्द्रो वा इदमभूद्यद्वय५ स्म इति तेब्रुवन्मघवन्ननु न आ भन + इति; इन्द्र एवेदं सर्वमभूत् , यद्वयमपि भवितुमिच्छामः ; तस्मान्मघवन्नस्मानाभज विभक्तान्कुर्विति तेब्रुवन् देवाः; मघवांस्तानपि ये चैव देवाः परे उपरिस्थिताः उत्तमाः ये चावरे अधस्थिता निकृष्टास्तानुभयानन्वाभजत् विभक्तानकरोदिति । तदिदमाह-अवरैः परैश्च देवैस्सजोषाः सहप्रीयमाणः सेवमानो वा । 'परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । अन्तर्यामे हूयमाने, मघवन् मादयस्व तर्पयस्व यज्ञात्मना स्थितमात्मानं द्विप्रकारांश्च देवान् न केवलमात्मानमेव । 'यज्ञादेव यजमानं नान्तरेति + इति ब्राह्मणम् । 'देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा उपांशौ यज्ञं स५ स्थाप्यमपश्यन् , इत्यादि ब्राह्मणम् । 'यदुभावपवित्रौ गृह्येयाताम् + इत्यादि च । केचिदाहुः हे मघवन् सोममिममन्तर्यच्छ तस्याधोदेशे निधाय तिरोहितं कुरु । तथा च कृत्वा पाहि रक्ष यथा न मे भ्रातृव्याः पश्येयुः । 'उरुष्य रायः' इत्यादि पूवत् स्वां कृतोसीति ग्रहमादत्ते ॥ 'मधुमतीर्न इतीक्षते ॥ *ख.-तथा. सं. ६-४-६. क.-स्वयं सूर्यात्मना. सं. १-४-३२. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy