________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीयसंहिता
[का. १. प्र. ४.
अन्तर्वन्तरिक्ष५ सजोषा देवै
रवरैः परैश्वान्तर्यामे मघवन्माद्यावा-पृथिवी । अन्तः । उरु । अन्तरिक्षम् । सजोषा इति स-जोषाः । देवैः । अवरैः । परैः । च । अन्तर्याम इत्यन्तः-यामे । मघवन्निति मयथा- उपयामगृहीतोसि' इति 'मधुश्च '* इत्यादि । मन्त्रार्थस्तूच्यते-हे मघवन् धनवन् इन्द्र, सोमेन धनेनान्नेन वा, इमं गृह्यमाणं सोमं, होमकाले सूर्यात्मना स्थित्वा, पाहि पिब, पीत्वा चान्तरुदरस्य मध्ये यच्छ स्थापय । पिबतेर्लोटि 'बहुलं छन्दसि' इति शपो लुक् , वाक्यादित्वान्न निहन्यते । एवमुरुप्य रक्ष रायः धनानि च यजमानन्य स्वभूतानि । छान्दसः कण्डादियगन्तः उरुष्यतिः । किञ्च, इषः अन्नानि संयजस्व सम्यक्सङ्गमय, देहि वा यजमानाय । यद्वा-इषः प्रजा एषणीयत्वात् , तास्सम्यग्याजय यथा यजनशीला भवन्ति तथा कुरु । अन्तर्भावितण्यर्थोत्र यजिः, णिलुग्वा — बहुलं संज्ञाच्छन्दसोः' इति । किञ्च, ते तव प्रसादादहं द्यावाप्टथिवी द्यावाप्रथिव्यौ उरु चान्तरिक्षं अनेन ग्रहेणान्तर्दधामि अन्तहितं करोमि भ्रातृव्याणाम्, यथा भ्रातृव्यैरदृश्यमाना एषु लोकेषु यजेम । यहा-भ्रातृव्याणामस्माकं च. मध्ये इमान् लोकान्दधामि एभ्यो लोकेभ्यस्स्तानपसारयामीत्यर्थः । यद्वा-द्युप्रभृतिभिश्शब्दैस्तत्स्था भ्रातृव्या उच्यन्ते, तानन्तर्दधामि अन्तरितान्करोमि नाशयामीत्यर्थः । 'एभिरेव लोकैर्यजमानो भ्रातृव्यानन्तर्धत्ते '' इति ब्राह्मणम् । यद्वा-द्युप्रभृतीन लोकान् मदी
*सं.१-४-१४. सं.६-४-६.
For Private And Personal