________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
138
तैत्तिरीयसंहिता
[का. १. प्र. ५.
mmmm
परा वा एष यज्ञं पशून वपति योऽग्निमुद्दासयते पश्चकपालः पुरोडाशो भवति पाङौ य॒ज्ञः पाङ्काः पशवो यज्ञमेव पशन रुन्धे वीरहा
वा एष देवानां योऽग्निमुद्रासयते न 'परेति । वै । एषः । यज्ञम् । पशून् । वपति। यः । अग्निम् । उदासयत इत्युत्-वासयते । पञ्चकपाल इति पञ्च-कपालः । पुरोडाशः। भवति । पाः । यज्ञः । पाङ्काः । पशवः । यज्ञम् । एव । पशून् । अवेति । रुन्धे । वीरहेति वीर-हा । वै । एषः । देवानाम् । यः । अग्निम् । उदासयत इत्युत्-वासयते । न । वै। एतस्य । ब्रा
'परा वा इत्यादि ॥ परावापो विनाशः । पञ्चकपाल इति पुनर्विधानं प्रयोजनान्तरार्थम् । पाको यज्ञ इति, धानादिपञ्चकाधीनसिद्धित्वात् । उत्सादित्वादणपवादोऽञ् उक्तः । पाका इति पशुसाधनत्वात्पाङ्काः । यज्ञं पशृंश्च अवरुन्धे प्राप्नोति ॥.
वीरहेत्यादि याज्यानुवाक्या विशेषविधिः ॥ देवानां मध्ये वीरस्थानहन्ता, का कथान्येषां देवानामिति ? तस्मात् सर्वेप्यस्माद्विभ्यतीति । ऋतायवः ऋतं सत्यं यज्ञं वा आत्मन इच्छन्तः । क्याच
For Private And Personal