________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरिः ॐ
तैत्तिरी य संहिता भास्करीयभाष्ययुक्ता.
प्रथमः काण्डः.
प्रथमः प्रश्नः हरिः ओम्॥'इषे त्वोर्जे त्या वायवस्स्थोपायवस्स्थ
भट्टभास्करीयं ज्ञानयज्ञाख्यम् तैत्तिरी य सं हि ता आ प्य म् . -
----- ईशानस्सर्वविद्यानां भूतानामीश्वरः परः ।
पुनातु सर्वदा चास्मान् शब्दब्रह्ममयश्शिवः ॥ अत्राहु:
यदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अननाविव शुष्कैधो न तज्ज्वलति कहिंचित् ॥ इति. किञ्च,
स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमभुते स नाकमेति ज्ञानविधूतपाप्मा ॥ इति. *म-वेदवेद्यश्शान्तरूपो देवो माहेश्वरः परः । अग्न्यादिदेवतारूपो जगतामीश्वरः परः॥ तिं-युष्मान,
निरु. १-६-२,
For Private And Personal Use Only