SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भट्टभास्करभाष्योपेता 45 भृष्टिश्शततेजा वायुरसि तिग्मतेजाः 'पृथिवि देवयजन्योषध्यास्ते मूलं मा हिसिष महतो तीक्ष्णीकरोति–वायुरिति ॥ वायुरसि वायुरिव क्षिप्रकार्यसि । कुत इत्यत आह–तिग्मतेजाः तीक्ष्णदीप्तिः निशितधारत्वात् । तादृशो हि त्वमसि । पूर्ववत्प्रकृतिस्वरत्वम् ॥ बर्हिः प्रहरति-पथिवीति ॥ हे पृथिवि देवयजनि - देवयागाधिकरणभूते त्वदीयाया ओषध्या मूलं मा हिंसिषम् अनेन स्फ्यप्रहारेण न विनाशयामि । प्रथमस्यामन्त्रितस्य षाष्ठिकमाद्युदात्तत्वम् । 'नामन्त्रिते समानाधिकरणे' इति पूर्वस्याविद्यमानवत्त्वनिषेधाद्वितीयः पदात्परत्वान्निहन्यते । ओषधिशब्दस्य दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । ओषशब्दो घान्त आद्युदात्तः । 'विषाद्वै नामासुरः '* इति ब्राह्मणं । तेन ब्राह्मणोक्तमेध्यत्वाभिप्रायं पृथिव्या देवयजनत्वम् । यथा 'मेध्यामेवैनां देवयजनी करोति '* इति ॥ सतृणं पुरीषमादत्ते-अपहत इति ॥ अपहतोपनीतः । ' गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । 'अररुर्वै नामासुर आसीत् '* इत्यादिब्राह्मणप्रसिद्धोसुरविशेषोऽररुः, अरणशीलः गूढचारी । 'अर्तेररुः' इत्यरुप्रत्ययः । स इतः पृथिव्या अपहतः । अपादानस्य शेषत्वेन विवक्षायां षष्ठयर्थे चतुर्थी । 'उदात्तयणो हल्पूर्वात् ' इति विभक्तरुदात्तत्वम् ॥ * ब्रा. ३-२-९. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy